SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 10 नाभिनन्दनोद्धारप्रबंधः स्थापिता *निगरणे समरेण __ श्रीस्वयंवरकरस्रगिवाभूत् ॥ १३१ ।। अन्येऽपि संघपुरुषा मलयोद्भवेन साधोविधाय पदयोस्तिलकेऽलिके च । 5 आरात्रिकं च परिपूज्य तदीयकण्ठे मालां क्षिपन्ति रचयान्त सुवर्णवृष्टिम् ॥ १३२ ॥ श्रीजिनेन्द्रगुणगीतनायकान् गायनान् समरसाधुरात्मना । स्वर्णकङ्कण-तुरङ्ग-वाससां दानतो +धनपुषामतोषयत् ॥ १३३ ॥ विधायारात्रिकमसावादिदेवस्य देसलः। संपूज्य प्रणिपत्याथ मङ्गलदीपमाददे ॥ १३४ ॥ द्वारभट्टादयो भट्टाः श्रीयुगादिजिनशितुः। सिंहनादनिनादेन पठन्ति स्म गुणावलीम् ॥१३॥ देसलस्य समरस्य च साधोः कीर्तिवल्लिजलवाहसदृक्षाम् । बन्दिनः प्रमुदिता बिरदाली. मुञ्चरन्ति विहितोन्नतहस्ताः ॥ १३६ ॥ रजत-स्वर्ण-रत्नानां वाजि-वारण-वाससाम् । 20 द्वारभट्टादिभट्टानां ददौ दानं स्मरो मुदा ॥१३७॥ उद्दीप्य कपुरदलैः सुगन्धैः ___ श्रीदेसलो मङ्गलदीपमुच्चैः । उच्चारयामास समं महद्भि ___ स्तूर्यादिवादित्रगणैर्नदद्भिः ॥ १३८ ॥ * निगीर्यते अन्नादिकमनेनेति निगरणं गलमित्यर्थः । + धनं पुष्णन्ति तेषां, मूल्यवतामित्यर्थः, स्वर्णादिपदस्य विशेषणमेतत् 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy