SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंध: प्रथमनाथमपूपुजदायतौ समभिगन्तुमनाः सुमनःश्रियम् ॥ ११४ ॥ कर्परपूरैः स पलप्रमाणैः ___ संवर्तितैरादिजिनस्य देहम् । विलेप्य रात्रौ मृगनाभिपकै रमण्डयत्साहणपालसाधुः ॥ ११५ ॥ मालती-केतकी-मल्ली-चम्पकाचैः सुमैविभोः लक्ष्यसंख्यैर्महापूजां विचित्रां साहणो व्यधात् ॥१६॥ साधुः स्मरो जिनपुरो घनसारसारं कालागरुं ज्वलति सज्ज्वलने जुहाव । धूमच्छलेन किल देसलदुष्कृतानि - यान्तीव तस्य सुकृतेन विहेठितानि ॥ ११७॥ देसलः सहजपालसंयुतो मण्डपे निहितदृष्टिरर्हति । प्रेक्षणक्षणमसावकारयत् तीर्थनाथगुणसावधानधीः ॥ ११८ ॥ श्रीसिद्धसरिगुरुपादयुगं प्रणम्य प्रातर्यतीन् सुविहितानथ भक्तपानैः । सम्पूर्णतृप्तिजनकैः प्रतिलाभ्य सर्वान् साधुः स्वसूनुसहितोऽकृत पारणं सः॥११९॥ चारणान् गायनान् भट्टानखिलानपि भोजनैः यथेष्टं भोजयामास देसलोऽ ब(क)लवैभवः ॥ १२० ॥ योगिनामथ दीनानामनाथानां दरिद्रिणाम् अवारितं भोजनार्थ सत्रागारमकारयत् ॥१२॥ 25 एवं प्रवर्तयन् दानं प्रत्यहं संघनायकः । विभोर्दश दशाहानि चक्रधर्मवराशयः ॥ १२२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy