SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । तत्र स्थितः संघपतिः ससंघो निरीक्ष्य चैत्यं विलसत्पताकम् । संसारसिन्धोः परपारयाने यानं स मेने किल संघमेतत् ॥ १३ ॥ 5 तदेकदृष्टचैव विलोकयन् स क्रमेण सङ्गाधिपदेसलोऽगात् । युगादिनाथस्य जिनस्य सिंह द्वारं श्रियो द्वारमिवाविशन्त्याः ॥ १४ ॥ अथ स्थितस्तत्र युगादिदेवं संवीक्ष्य हर्षेण धनं ववर्ष | स देसलः स्वर्ण-हिमांशुवासोमुक्तामणिनाणकभूषणादि ॥ १५ ॥ मध्ये प्रवे (वि) श्याथ तमादिनाथं स्वकारितुं (i) वन्दितुमुक्त (क) चित्तः । 15 भूमौ लुठन् देसलसंघनाथो 10 20 युगादिनाथस्य समीपमागात् ॥ १६ ॥ उत्थाय सर्वाङ्गममुं जिनेशं साधुः सुधामूर्तिमिवालिलिङ्ग । कः प्राप्य दुष्प्रापमशेषविश्व संजीवनं माद्यति नो निधानम् ॥ १७ ॥ प्रणम्य भक्त्या जिनमादिनाथं तं लेप्यमूर्ति परिपूज्य पुष्पैः । प्रदक्षिणां दातुमनाः स कोटाकोटिस्थितानार्चयदर्हतोऽथ ॥ १८ ॥ 25 अपूपुजत् पाण्डवपञ्चमूर्तीः कुन्तीं तथा देसल संघनाथः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy