SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ चतुर्थ प्रस्तावः । सूरयो धर्मघोषाख्या बृहद्गणसमुद्भवाः । चलन्ति स्मोच्छलद्रङ्गसङ्गाभङ्गुरचेतसः ||२८५॥ श्रीमन्नागेन्द्र गच्छीयाः श्रीराजगुरवोऽपरम् । नामादधानाः संचेलुः श्रीप्रभानन्दसूरयः ॥ २८६ ॥ 5 श्री हेमसूरिसन्तानपावनाः शुद्धभावनाः । श्री वज्रसेननामानः सूरयः समुपागताः ॥२८७॥ अन्येऽपि सूरयो नानागच्छसागरकौस्तुभाः । आशिश्रियः संघनाथं देसलं पुरुषोत्तमम् ॥२८८॥ श्रीचित्रकूट - वालाक - मरु - मालवकादिषु । 10 पदस्था मुनयो ये स्युः प्रायः सर्वेऽपि तेऽमीलन् ॥ २८९ ॥ शुभे वारे शुभे लग्ने श्रीमन्तः सिद्धसूरयः । सर्वदर्शनसंयुक्ता वेलुर्देसलसंनिधौ ॥ २९०॥ तेषां श्रीसिद्ध सूरीणां सर्वदर्शनशालिनाम् । प्रवेशोत्सवमातेने संघे संघेशदेसलः ॥२९१ ॥ 15 जैत्र-कृष्णाह्वयौ संघपतो धर्मधुरन्धरौ । चेलतुर्देसलस्नेहगुणाबद्धौ सहोदरौ ॥ २९२ ॥ विधातुं गुणसंयोगं मुक्तानामपि वेत्ति यः । स समेत्यामिलत्संघे हरिपालोऽपि वत्कुरः ॥२९३॥ देवपालः संघपतिः संघमादाय सत्वरम् । 20 देसलस्यागमत् संघे श्रोत्यागभटवाटकान् ॥२९४॥ श्रीवत्सकुलकल्पद्रुः स्थिरदेवस्य नन्दनः । संघे य (य) या सुर्यात्रायां लेदुकोऽप्य मिलन्मुदा ॥ २१५ ॥ प्रह्लादनोऽपि संचेले सौवर्णिकशिरोमणिः । संघे समरसन्मानसंवर्द्धितसमुद्यमः ॥ २९६ ॥ 25 सत्यवाग्व्रततीव्रातसमुल्लासनवारिदः । गत्वाऽमिलदथो संघ सोढाकः श्रावकोत्तमः ॥ २९७॥ Jain Education International १५१ For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy