SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ १२४ नाभिनन्दनोद्धारप्रबंधः । व्यजिज्ञपदिदं तात ! ददस्वादि(देशमाशु मे। साधयामि यथा तीर्थोद्धारमस्मि समाहितः ॥२६०॥ सुतः स एव यः कार्यो(र्या)नसि धौरेयतां व्रजन् । विधाय सारथिं तातं पारं नयति तद्भरम् ॥२६॥ 5 देसलोऽथ स्मरसिंहं सुतं सिंहपराक्रमम् । विज्ञाय भाग्यवन्तं तं तस्मिन् कार्ये नि(न्य)युक्त सः॥२६२॥ स प्राप्य पितुरादेशं सावधानमनाः स्मरः । गुरुश्रीसिद्धसूरीणां पावें गत्वाऽनमत् पदौ ॥२६३।। जवैव मे यथा कार्यसिद्धिः स्यादचिरा यदि । 10 प्रभो! प्रसादमाधाय तथोपायः प्रदर्श्यताम् ॥२६॥ श्रीसिद्धसूरयोऽप्याहुरुपायः श्रूयतामिह । यदात्मनो विधीयेत गाढाभिग्रहयन्त्रि(न्त्रणा ॥२६५॥ तत् श्रुत्वा समरः साधुरुच्चचार गुरोः पुरः । अभिग्रहानिति गृहावेशक्लेशविविक्तधीः ॥२६६॥ 15 ब्रह्मवतं पालयिष्ये द्विभॊक्ष्यामि न वासरे । खली-तैल-जलैः स्नानं नाधास्ये मिलितैत्रिभिः ॥२६७॥ एकां विकृतिमादास्ये शयिष्ये च क्षितावहम् । यावन्न पूर्णतां नीता शत्रुञ्जयसमुद्धृतिः ॥२६८॥ [युग्मम्] आदाय प्रभुपादान्ते साधुरेतानभिग्रहान् । 20 जिनमन्दिरमागत्य तातमेवं व्यजिशपत् ॥२६९॥ तात ! श्रीमन्तमलपखानं सन्तोष्य नायकम् । आददेऽहं स्फुरन्मानं तीर्थस्योद्धृतिहेतवे ॥२७॥ तदादिश यथा सारोपायनैस्तोषयामि तम् । नृपप्रसादः कार्यस्य सिद्वौ यन्मुख्यकारणम् ।२७१॥ 25 कुरु स्वैरं वत्स ! यत्ते रोचतेऽत्र शुभायतिः। यतः प्रमाणं सर्वत्र त्वमेव विहितो मया ॥२७२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy