SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । बिम्बमस्त्यादिनाथस्याधुना भूमिगृहे स्थितम् । तदानीय स्थापयात्र प्रासादे मूलनायकम् ॥११७॥ जावडिः प्राह मे गेहे विद्यते न घनं धनम् । दूरदेशाद्वज्जनकात् बिम्बमानीयते यथा ॥१९८॥ 5 यक्षः प्रोवाच मा चिन्तामत्राथें कुरु कांचन । यानि द्वादशवर्षेभ्यः परतो वाहनानि भोः ॥११९॥ भवता प्रेषितान्यासन् तानि पूर्णानि सम्प्रति । समेष्यन्त्यष्टादशापि शीघ्रं भाग्यवशात्तव ॥१२०॥ [युग्मम् ] यक्षेशादेशतो हृष्टो जावडिः सीतया युतः। 10 निःसन्देहं कार्यसिद्धिममन्यत स भाविनीम् ॥१२१॥ सप्तविंशे दिने सोऽथ सप्रियः पारणं व्यधात् । नहि मृत्युं गतः कोऽपि पञ्चमं गायति क्वचित् ॥१२२॥ घन्दित्वाऽधो तीर्थनाथं जावडिः स्वपुरं गतः। कपर्दियक्षस्यादेशे निःसन्देहमना द्रुतम् ॥१२३॥ 15 द्रव्यलक्षत्रयं दत्त्वा शुल्कशालानियोगिनाम् । सन्दिग्धागमयानानां दाननिर्णयमादधे ॥१२४॥ अष्टादशापि यानानि सम्पूर्णानि महाधनैः । आयातान्यचिन्तितानि श्रेष्ठी हर्षमुपागतः ॥१२५॥ वील्यानेकलक्षदानं विलक्षाः शौल्कशालिकाः। 20 स्वकरौ घर्षयन्ति स्म गतेऽर्थे द्यूतकारवत् ॥१२६॥ सपण्यैरथ विक्रीतैर्बहुकोटीश्वरोऽभवत् ।। मनोरथोऽपि पुण्यस्य सद्यः फलति देहिनाम् ॥१२७॥ महायोपायनं श्रेष्ठी समादायाथ गजने । जगाम जावडियक्षोपदिष्टजिनहेतवे ॥१२८.! 25 तस्मिन् ज(य वनजातीयः सुरत्राणोऽस्ति नायकः । जापडिर्विविधैः प्राभूतैस्तमतोषयत् ॥१२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy