SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । कर्पूरपूरसुभगं ताम्बूलं यस्य यच्छतः। कपुरधाराप्रवाहविरुदं बन्दिनो ददुः ॥९२६॥ तिलगाधिपतिर्यस्य कीर्त्या श्रुतिमुपेतया । प्रेरितः स्वपुरि स्थानं प्रददौ देववेश्मनः ॥९२७॥ 5 कर्णाट-पाण्डुविषये यद्यशः प्रसरत् सदा । तदधीशमुख्यलोकमुत्कं तदर्शनेऽकरोत् ॥९२८॥ अन्यदा देशलः साधुः श्रीमद्देवगिरौ पुरे। नूतनं जैनभवनं कर्तुमैच्छदतुच्छधीः ॥९२९॥ स साधुः सिद्धसूरिभ्यो गुरुभ्यः स्वमनोरथम् । 10 आचख्यौ यन्ममेच्छाऽस्ति जैनमन्दिरकारणे ॥९३०॥ प्रभुप्रसादात् तदियं पूर्यतां मे झट(टि)त्यपि । को मूलनायकजिनः क्रियतामायतौ हितः ॥९३१॥ प्रभुः प्रोचे तवोहाऽसावभवद् भाग्ययोगतः। जिनौकसां कारकाणां यतः स्यादुच्छ्रिता गतिः ॥९३२॥ 15 दुष्टारिष्टहरः पार्श्वजिनः श्रीमूलनायकः । विधाप्यतामयं साधो! सर्वकामितदायकः ॥९३३॥ अथ देवगिरिस्थस्य सहजस्य जिनौकसः। विधापनार्थमादेश प्रेषयामास देशलः ॥९३४॥ सोऽप्यादेशं पितुः सद्यो यथा क्षीरं सशर्करम् । 20 आददे प्रमदापूर्णो बुभुक्षित इवाधिकम् ॥९३५॥ श्रीरामदेवभूदेवं सन्तोष्योपायनैरयम् । जिनौकोभूमिमादत्त धर्म को हि विलम्बते ॥९३६॥ स्वल्पैरहोभिरनिशं दीयमानैर्धनैर्धनैः । जो वैज्ञानिकोत्साहात् सम्पूर्ण देवमन्दिरम् ॥९३७॥ 25 शीतदीधितिसंकाशमारासनशिलामयम् । अथासौ कारयामास देसलो मूलनायकम् ॥९३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy