SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । प्रतिहट्ट प्रतिगृहं प्रतिरथ्यान्तरं नृपः। ढौकनैर्विविधैः पूज्यमानः सौधमुपागमत् ॥७४८॥ यक्षो नगरनिःसारात्प्रभृति प्रसृतौजसः। शंखस्य चरितं सर्वमाचचक्षे नृपाग्रतः ॥७४९॥ 5 नरोत्तमनृपः शंखं प्राप्तराज्यद्वयं स्वयम् । चक्रे स्वराज्यभरिमपि तं जनसंमतम् ॥७५०॥ न्यस्तराज्यभरस्तस्मिन् निश्चिन्तश्चरणोन्मुखः । नृपस्तस्थावेतदेव वार्धक्ये युक्तमीदृशम् ॥७५१॥ उपशान्तो नृपः पूर्वः प्रतापी च नवोदितः। 100 कृष्णप्रतिपदा प्राषः (प्राप्य) सोमार्काविव रेजतुः ॥७५२।। तस्य पालयतो लोकानन्यदोद्यानपालकः। एत्य विज्ञपयामासेऽद्योद्याने देव ! केवली ॥७५३।। नाना शुभंकरः सर्वसर्वसन्देहदेशकः। आगतोऽस्ति महीनाथ! कृतार्थय दृशौ ततः॥७५४॥[युग्मम्] 15 नरोत्तमनृपः श्रुत्वा स्वेष्ट रोगीव भेषजम् । विद्या एव ददौ तस्मै मुदितः पारितोषिकम् ॥७५५।। नरोत्तमनरेशोऽथ शंखराजसमन्वितः। सान्तःपुरपरीवारो निर्गतो वन्दितुं मुनिम् ॥७५६।। तौ केवलिनमालोक्य गजादुत्तीर्य भूपती। ४उत्सृज्य राज्यचिह्नानि पञ्चधाऽभिगमान्वितौ ॥७५७।। मुनिमानेमतुर्भूमिपीठपञ्चाङ्गसङ्गमौ । तेनापि हि धर्मलाभाशिषा तावभिनन्दिता ॥७५८॥ आसीनौ विनयाधीनौ भूपौ केवलिनः पुरः। विधातुं देशनां सोऽपि बोधार्थमुपचक्रमे ॥७५९।। 25 जन्म-मृत्यु-जरालोक(ल)कल्लोलकुलसंकुलः । पसरद्व्याधिबोधो(पाथो)ऽथय(या)दोभिरभितःश्रितः।।७६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy