SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ८२ नाभिनन्दनोद्धारप्रबंधः । तातदत्तं त्वस्मि राज्यं सदोपभुक्तपूर्व्यहम् । श्वानोऽपि स्वामिना दत्तमश्नाति मुदितोऽशनम् ॥६८५॥ भस्याज्ञां माऽवमन्यध्वं कदापि समदाशयाः। सहिष्यते न हि स्वल्पमण्यागोऽयं विदेशजः ॥६८६॥ 5 गुरोर्भूपस्य तस्यानुशास्ति शिष्या इवाप्य ते । भक्त्याऽवनम्रशिरसस्तथेति प्रतिपेदिरे ॥६८७॥ अथ प्रदाय दानानि दीनादिभ्योऽरिकेशरी। वन्यवृत्त्या प्रववृते तपश्चरितुमुद्यतः ॥६८८॥ जातेऽपि वैभवाधिक्ये स्वमित्रं शंखभूपतिः। 10 सस्मार वारिधिः किं स्याद्वर्षास्वप्यन्यथा स्थितिः ॥६८९॥ *धिग् पद्मं य इते मित्रे कोशं गोपयति क्षितौ । पाणिपद्मस्वभूदस्य मित्र कोशविकाशकः ॥६९०।। विससर्ज सुरी भूरिभक्त्याऽभ्यर्च्य भुवो धवः । यक्षं स्वराज्याधिष्ठातृदेववर्गाधिपं व्यधात् ॥६९१॥ 15 भूपो विज्ञपयामासे तावताऽभ्येत्य रा(र)क्षसा । स देवशून्यो विषयः पुरं च समवास्यताम् ।।६९२।। प्रार्थनां विफलीकर्तुमसहिष्णुः स भूपतिः। . प्रतिपद्य पलादोक्तं मित्रस्यान्वेषयन्मुखम् ॥६९३।। धराम्यस्तशिराः सोऽपि प्राज्ञो वि(व्य ज्ञपयन्नृपम् । 20 प्रसादो दीयतां देवादेशन स्वानुगामिनः ॥६९४॥ सुमित्र! तत्र सत्त्वानां प्रयाहि सह रा(र)क्षसा। सुवासमुद्रसं देशं कुरुष्व नगरं च तत् ॥६९५।। ------------ -. * पद्मं धिक् , य: क्षितौ इते-क्षीणं गते अस्तं गते वा मित्रे-सुहृदि सूर्ये वा, कोशं-निधि कोरकं वा गोपयति-प्रछन्नं रक्षति संकोचयति वा; अस्य राज्ञः पाणिपमस्तु क्षितौ इते- देन्यास्था गर्ने मित्र कोशविनाशन: - वातत्यर्थः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy