SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ७८ नामिनन्दनोद्धारप्रपंधः । आने तुम्बीव संलग्ना त्वयीयं न विराजते । प्रसीद देहि मे देवि(व!) जायां वणिग्जनोचिताम् ॥६३३॥ महाजमोऽपि नरवोचे कान्ता देवास्य दीयताम् । यश्यायरोपका भूपा अन्यायं कुर्वते कथम् ॥६३४॥ सतीषु राजकन्यासु शुद्धान्तेऽस्यां तवोचितः। न कर्तुं कल्पवल्लीषु घोषातक्यामिवाग्रहः ॥६३५॥ उक्ते(क्त्वे)ति पुरतः पौरैर्भूपतेरुक्तयुक्तिभिः । सवे व्यर्थमभूद् यद्वद् वने नखविलेखनम् ॥६३६॥ धृत्वा कण्डेषु सोल्लण्डैवण्डैनिष्ठुरभाषिभिः । 10 बहिष्कृताः कृतागस्का इव पौरा नृपाशया ॥६३७॥ सूरदेवः स्वसुन्दा वियोगदहनार्चिषा । दह्यमानोऽन्तरत्यन्तं शुष्यति स्म स वृक्षवत् ॥६३८॥ स चक्र इव चक्रन्द प्रियाविरहविह्वलः। बधाम परितो राजकुलं सर इवाकुलः ॥६३९॥ 15 न जने न वने रङ्गे न द्रङ्गे न धनेऽपि च । कापि प्राप्य रतिं पापव्याप(प्राप ताप)तप्त इवांशुमान् ॥ दुःखार्तः सोऽन्यदोद्याने गतोऽदर्शि तपस्विना । शैवेनैकेन दुःखस्य कारणं पृष्टवानपि ॥६४१॥ तं साद्यन्तमुदन्तं खं स जगाद तपस्विने । 20 तस्यार्तस्यौषधमिवोपदेशं स मुनिर्ददौ ॥६४२॥ रसेनेवोपदेशेन तेनान्तेन क्षणादसौ।। अपेतमोहो वैराग्यात् तस्मादीक्षामुपाददे ॥६४३॥ प्रतिपाल्य चिरं दीक्षां पूर्णायुसृत्युमाए च । सातो राक्षसद्वीपे सोऽहं राक्षसनायकः ॥६४४॥ 25 शात्वा विभङ्गमानेन जितशत्रु व्यसूत्रयम् । तस्येदमिति वैरेण द्रङ्गमप्युदवासयम् ॥६४५॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org ww
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy