SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । तव दृष्टयापि दृष्टोऽहं गतप्राण इवाभवम् । देव! देव्या ततो बद्धोऽन्यथा केयं पुरो मम ॥६०७॥ युद्धेन तदलं मातुर्निर्यत्प्राणं विमोचय । दखते कूर्चमेकस्यापरो दीपचिकीः खलु ॥६०८॥ [युग्मम् ] 5 इत्युक्ते सहसा शंखो बन्धनात्तममोचयत् । यतः स्युर्वच्छ (त्स)लाः सन्त उपशान्ते रिपावपि ॥६०९॥ तथाहि कीडशो भद्र ! नारीराक्षसयोरयम् । चिकीर्षितस्त्वया विद्युद्वातयोरिव संगमः ॥६१०॥ इति पृष्टे कुमारेण स्वाञ्जलि जलजाकृतिम् । 10 विन्यस्य शिरसि प्रोचे नृचक्षास्तत्पुरस्त्विदम् ॥६१९॥ चेष्टते देव ! कीटोऽपि विना हेतुं न हि क्वचित् । किं पुनर्माडशो देवजातिजातो विभगवान् ॥६१२॥ कारणं हरणे त्वस्याः शृणु स्वामिन् ! समाहितः। अस्तीह भरते नाना सुग्रामो ग्रामसत्तमः ॥६१३॥ 15 नानाविधवृषा वा(धा)रिगाङ्गेया बहुनन्दयः । सुरूपाख्या(क्षा)हसन्ति स्म यद्वास्तव्या अपीश्वरम् ॥६१४॥ धनदेवो वणिक् तत्र मन्त्रसूत्रितवैभवः। धनदोऽपि कुबेरोऽभूत् ध्रुवं यद्धनदूषितः ॥६१५॥ तस्य सूनुः सूरदेवो देववद्विबुधप्रियः । 20 बभूव भवनीभागभाजिपुन्नागभूषणम् ॥६१६॥ स पित्रा समये कन्यामनन्यां रूपसम्पदा । सौभाग्यसुन्दरीं नाना विभूत्या परिणायितः ॥६१७॥ क्रमेण विषयानस्य सेवमानस्य रागतः। तया सह समुत्पेदे स्नेहस्याभ्यन्तरो रसः ॥६१८॥ 25 पितर्युपरते सूरदेवो धनमदा(नमादाय)सह । विशिष्टभोगसम्पत्त्यै ययौ पोतनपत्तनम् ॥६१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy