SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । भो! भो! शृणुत भूपाला ! लोका! यः कोऽपि मत्सुताम् । प्रत्याहरति राज्याधं तस्य इच्छामि तामपि ॥५६८॥ मुद्रितेष्विव सर्वेषु मौनभाजिषु राजसु । शंखः प्राह महोत्साहस्त्वत्सुतामहमानये ॥५६९॥ 5 व(वि)दितं विहितं वत्स! तहत्तं जीवितं मम । स्वर त्वरितमेवास्वं(व स्व) रामः सीतामिवानय ॥५७०॥ शंखः सप्तदिनान्तस्तामानयामि न चेत्तदा । नयामि जीवितं वहनावाहुति प्रोचिवानिति ॥५७१॥ प्रतिक्षापूरणायाथ निर्गतः पार्थिवाप्रतः। 10 साश्चर्यमीक्षमाणोऽसौ राजभिः सत्त्वशालिभिः ॥५७२॥ गत्वैकान्ते स सस्मार देवी पूर्ववरप्रदाम् । तदैवैत्यावदद् वत्स! वदास्मि करवाणि किम् ॥५७३॥ स आह देवि ! कोऽप्येत्य राजपुत्रीं स्वयंवरात् । जहार बालककरात् काकोलः पोलिकामिव ॥५७४॥ 15 स्वयंवरसमेतानां भूपानां पश्यतां पुरः। हवा कोऽपि ययौ सिद्ध इव न ज्ञायते हि सः ॥५७५॥ देवि! ज्ञानेन विज्ञाय वदादिश गता क सा। . हुता केन यथा युष्मत्प्रसादादानयामि ताम् ॥५७६॥ देव्याह वत्स! जानामि यस्तस्या अपहारकः । 20 तद्वद त्वां यथा तत्र नयामि क्षणमात्रतः ॥५७७॥ एवमस्त्विति तेनोक्त देवी व्योमाध्वनाऽथ तम् । निनाय तत्र यत्रास्ति प्रदेशे रक्षिता कनी ॥५७८॥ उत्तार्य सुर्या मुक्तोऽसौ चञ्चन्मणिविभूषणः। संचचार सदाचारा(रः) सुभ्रवेवार्भको भुवि ॥५७९॥ 25 अथ देवी तिरोऽधत्त सोऽपि गच्छन् पुरः पुरम् । ददर्श दर्शनं बौद्धमिव शून्याश्रयं च तत् ॥५८०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy