SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । तद् ब्रूहि कस्य भूपस्य भूपपुत्रस्य वा पुनः। कस्या वा भूपपल्यास्त्वं शुक! प्राणप्रियोऽभवः ॥५१६॥ शुकोऽथ प्राह सोत्साहं शृणु श्रोत्रसुखावहम् । यस्य नामापि मांगल्यं स स्वामी मम सुन्दरि! ॥५१७॥ 5 कोऽसाविति तयोक्ते स प्राह रत्नपुरे पुरे । नृपो नरोत्तमस्तस्य शंखोऽस्ति कुमरो वरः ॥५१८n यः सोमोपि न दोषाश्रीः शूरोऽपि न हि तापनः । ईशोऽपि न विरूपाक्षो जिष्णुर्यो न जनार्दनः ॥५१९॥ किरीट्यपि न बीभत्सो रामोऽपि न हलायुधः । 10 इन्द्रोऽपि न दुश्च(अच्य वनः सोऽयं क इव वर्ण्यते ॥५२०॥ चई यदहं संवीक्ष्य स्वीयरूपप्ररूपणात् । यस्मिन् विरक्तोऽनङ्गत्वं भेजे कामस्तदाद्यतः ॥५२१॥ यत्खड्गदण्डे निवडे(बिडे) शक्तिशङ्कलया जिता । सततं स्थिरतामाप चपलापि हरिप्रिया ॥५२२॥ 15 यो नीरनिधिगम्भीरः क्षीरोज्ज्वलयशाकलः । समाभारसमुद्धारालंकर्मीणभुजाबलः ॥५२३॥ वदान्यः सर्वमान्यश्वानन्यसामान्यसद्गुणः । सर्वाङ्गसुभगौणवर्ण्यमानोऽनुमन्दिरम् ॥५२४॥ यः सिद्ध इव सर्वत्र कामचारी विचक्षणः । 20 स शंखकुमरः स्वामी मम तस्यास्मि वल्लभः ॥५२५॥ स्मित्वाऽऽह सानुरागं सा शुक! प्रियनिवेदनात् । पूज्योऽसि तद्वद कथं स भवेद् दृष्टिगोचरः ॥५२६॥ शुकः प्राह स सर्वज्ञ इवान्यजनचिन्तितम् । धात्वा तदिच्छया व्योना विद्याधर इवैति च ॥५२७॥ 25 एवं चेहर्शनपथं स समेतु मम प्रियः । बस्युक्ते गुटिकामास्यानिष्कास्याषिरभूध सः ॥५२८॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy