SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । यथा कृतार्थीकृतवान् दर्शनेन दृशौ हि नौ । तथाऽपि पाणिग्रहणेम(ना)स्मत्पुत्री कृतार्थय ॥४१२॥ किंगुणः किंकुलः कोऽयमिति यस्य न निर्णयः। वराय तस्मै नात्मीया सुता देया कदाचन ॥४१॥ 5 इति शंखवचः श्रुत्वा भूपः प्राह धियां निधे।। प्रत्यक्षेणोपलब्धेऽर्थे कोऽनुमानं निरीक्षते ॥४१४॥ तद् (त्वद् )गुणाधारगेहेन देहेनैव तवाखिलम् । कुलादि विदितं तन्मां माऽवस्था मनागपि ॥४१५॥ प्रतिपन्नमिदं ज्ञात्वा तन्मौनादथ भूपतिः। 10 शुभेऽहनि महेनैतामुदवाहयदात्मजाम् ॥४१६॥ सुखं सिषेवे स यथा स्वेच्छं विषयजं ततः । दिनानि कतिचित् तत्र शंखः कन्दर्पदर्पतः ॥४१७॥ भूयो देशदिदृक्षोक्षा(त्क) स्तामनुज्ञाप्य सोऽग्रतः । ययौ ताभ्यां समं यद्वा स्थिरः पवेः कचिन्न हि ॥४१८॥ 15 बजन् कापि वने सायमायासापहनवाय सः। तस्थौ स्वस्थमना मित्रक्लप्तपल्लवप्रस्तरः ॥४१९॥ निशीथेऽथ समासन्नं ज्वलज्ज्वालमुदर्चिषम् । वीक्ष्य यक्षं समादिक्षत् तन्मूलोत्पत्तिवित्तये ॥४२०॥ शीघ्रं यक्षोऽपि विज्ञाय कुमाराय व्यजिज्ञपत् । 20 साधयन् विद्यते विद्यां देव ! कोऽप्यत्र सिद्धराट् ॥४२१॥ तस्य चित्रकवल्लीव तदधिष्ठायकामरी । आयास्यतोऽपि नायाति निर्भाग्यस्य शोः पथम् ॥४२२॥ सोऽशक्तोऽपि परं देवसाहाय्यात्साधयिष्यति । विद्यामनूरुवद् भानुस्वीकृतेः खान्तसङ्गतिम् ॥४२३॥ 25 दिष्टया करिष्ये साहाय्यं स्वदेहव्ययतोऽप्यहम् । इत्यूचे भूपभूर्यद्वाऽन्याथें सृष्टिः सतां सदा ॥४२४॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy