SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । विद्यते मध्यदेशेषु पुरं रत्नपुरं वरम् । विलोक्य मरुल्लोकः स्वर्लोकेऽभूद् गतस्पृहः ||२८३॥ प्रतापदहनप्लुष्टदुष्टपक्षः क्षमापतिः । यद् तत् पालयति भूपालपालिसेव्यो नरोत्तमः ॥ २८४ ॥ 5 यदास्यविजितः सोमो नभो हीण इवागमत् । सुकुला सुकला तस्य पट्टदेवी वसुन्धरा ॥ २८५ ॥ अथो मिथोऽनुरागोत्थप्रीतिनिर्भरचेतसोः । काल: कियान् व्यतीयाय निरपायश्रियोस्तयोः ॥ २८६ ॥ अन्यदा वन्यदावाग्निधूमाभतिमिरातुरे । 10 वसुन्धरा निशामध्ये सुषुप्ता स्वप्नमैक्षत ॥२८७॥ यथा शार्ङ्गभृता दत्तः स्वशंखः स्वकरान्मम । प्रविश्य वदने तस्थौ मुक्ता शुक्ताविवोदरे ॥ २८८॥ प्रबुद्धाऽथ समुत्थाय काय द्वैगुण्यभृन्मुदा । गत्वा प्रियाय चाचख्यौ स्वदृष्टुं स्वप्नमादरात् ॥ २८९ ॥ 15 आकर्ण्य कर्णपीयूषप्रतिमं तद्वचो नृपः । उल्लसत्पुलकांकूरपूरस्थपुटितोऽभवत् ॥ २९०॥ विमृश्य स्वधिया स्वनं तत्पुरो व्याकरोत्यलम् । विष्णुवजिष्णुरचसु भाषी सुतनु ! ते सुतः ॥ २९२ ॥ त्रपुषीवल्लिवत्सवाङ्गीणकण्टकिता मुदा । 20 ग्रन्थी बद्ध्वा स्ववस्त्रान्ते स्वप्नं साऽऽन्तमिव व्यधात् ॥ २९२॥ ततः स्वपत्यनुज्ञाता याता सा निजमन्दिरम् । तदैवावतरत् कोऽपि तत्कुक्षौ त्रिदिवात् सुरः ॥ २९३ ॥ रोहणावींव तत्कुक्षिश्चिन्तामणिमिवात्मजम् । बभार सर्वसंसारसारभूतं विभूतिदम् ॥ २९४ ॥ 25 गर्भः क्रमेण वर्धिष्णुर्विदधे शुभदोहदान् । देवपूजा - महादानो-पकारप्रमुखानसौ ॥ २९५ ॥ Jain Education International For Private & Personal Use Only * www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy