SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ४६ नाभिनन्दनोद्धारप्रबंधः । यक्षदेवाह्वयं सूरि स्वपदे विनिवेश्य च । वर्षाणां चतुरशीतेरायुषोऽन्ते दिवं ययौ ॥२२०॥ चतुभिः श्रीयक्षदेवस्तत्पदे पूर्वाचल इवार्यमा । कलापकम सूरिरभ्युद्यतो रेजे तमःस्तोमहरोऽङ्गिनाम् ॥२२१॥ 5 सूरिः कोरण्टकपुरे कदापि विहरन् ययौ । माणिभद्राख्ययक्षस्य समनि स्थितिमादधे ॥२२२॥ तच्छिष्यो लघुकः कोऽपि यक्षमूर्द्धनि मौय॑तः । बालभावाश्चञ्चलत्वात् पात्रक्षालनवार्यधात् ॥२२३॥ ततः प्रकुपितो यक्षः शिष्यं तं पहिलं व्यधात् । 10 सूरयो ज्ञानतो ज्ञात्वा निग्रहं साग्रह व्यधुः ॥२२४॥ निगृहीतः स आचार्यः सेवकत्वं प्रपन्नवान् । यक्षाराद्धपदस्यास्य सान्वयं नाम चाभवत् ॥२२५॥ ककसूरिं गुरुं सोऽपि स्वपदेऽस्थापयत् प्रभुः। यद् गुणानेश्वरो गातुं सोऽपि चित्रशिखण्डिजः ॥२२६॥ 15 तस्य पदे सिद्धसूरिर्मुरुरासीद्धियां निधिः। वीक्ष्य यतलूक्ष्मदर्शित्वं कविः स्वाक्षि रुषाऽकृषत् ॥२२७॥ तत्पदे श्रीदेवगुप्तसूरयो गुणभूरयः । जशिरे यद्यशःशौक्ल्यदूषितोऽगान्नभः शशी ॥२२८॥ नामभिः पञ्चभिर्गच्छः पश्चानन इवाननैः । 20 भासमानोऽभिनत् वादिकुम्भिकुम्भस्थलान्ययम् ॥२२९॥ एवं व्यतीयमानेषु गच्छेऽस्मिन् सूरिषु अमात् । ककसूरिगुरुर्जशे विशवर्ण्यगुणाश्रयः ॥२३०॥ तदन्वये यक्षदेवसूरिरासीद्धियां निधिः। दशपूर्वधरो वज्रस्वामी भुव्यभवद् यथा ॥२३१॥ 25 दुर्भिक्षे द्वादशादीये जनसंहारकारिणि । वर्तमाने नाशकेन(केऽत्र) स्वर्गेऽगुर्बहुसाधवः ॥२३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy