SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । देहैक्यादिह लग्नत्वान समं लग्नसाधनम् । परमत्र साधयित्वा व्योनाऽऽयास्यामि तत्र हि ॥१८॥ कार्या प्रतिष्ठासामग्री भवद्भिः कृतनिश्चयैः। तथा तत्रैव लग्नेऽहं कुर्वे संघसमीहितम् ॥१८२॥ 5 ततः प्रोल्लसितानन्दाः श्रावकाः सूरिपुङ्गवम् । वन्दित्वा स्वपुरं जग्मुः संघार्यचरधुराशु ते (?) ॥१८॥ ततः सर्वापि सामग्री प्रतिष्ठाया उपासकैः । मिलिस्वा मीलयामासे माघे मासे यथाविधि ॥१८॥ ततः श्रीमत्युपकेशपुरे वीरजिनोशतुः। 10 प्रतिष्ठां विधिनाऽऽधाय श्रीरत्नप्रभसूरयः ।।१८५॥ कोरण्टकपुरे गत्वा व्योममार्गेण विद्यया । तस्मिन्नेव धनुर्लग्ने प्रतिष्ठां विदधुर्वरम् ॥१८६॥ [युग्मम्] श्रीमहावीरनिर्वाणात्सप्तत्या वत्सरैर्गतैः। ऊकेशपुरवीरस्य सुस्थिरा स्थापनाऽजनि ॥१८७॥ 15 भूयोऽपि व्योमयानेन व्या(वृ)स्यागत्य सूरयः । श्रेष्टिन बोधयामासुर्जिनस्नानार्चनक्रियाम् ॥१८८॥ स क्रमादूहडः श्रेष्ठी जिनधर्मधरोऽभवत् ।। शुद्धसम्यक्त्वभृद् यस्य परिवारोऽपि चाभवत् ॥१८९॥ श्रीरत्नप्रभसूरीणामागत्यागत्य तस्थुषाम् । 20 मासकल्पा अनेके च व्यतीयुः कल्पसेविनाम् ॥१९०॥ एवं तत्र पुरे पूज्याः संस्थिता वणिजामथ । अष्टादश सहस्राणि जंघानां प्रत्यबोधयन् ॥१९१॥ अन्यदोपासकाः पूज्यैः प्रोक्ता मा चण्डिकार्चनम् । कुरुध्वं यदियं सत्त्वघातपातकिनी सदा ॥१९२॥ 25 सप्रभावा प्रभो! देवी नार्च्यते यदि तद् ध्रुवं । हन्ति नः सकुटुम्बानप्येवं प्राहुरूपासकाः ॥१९३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy