SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३४ नाभिनन्दनोद्धारप्रबंधः । कलिकालरिपुस्तस्मात् पुराद् दूरं पलायितः ॥६॥ अगण्यपण्यपूर्णासु यस्मिन्नापणवीथिषु । श्रेयस्य न स्मरन्ति स्म जना अन्यान्यथे(वी)क्षिणः ॥६५॥ सगुणाः सवसूल्लासा रोहणाद्राविवान्वहम् । 5 संघेशमणयो यत्र जायन्ते जनभूषणाः ॥६६॥ किमन्यवयेते तत्र कौतुकं यत्र साधवः। सकलत्रा अप्रतिमाः सन्ति देवालया अपि ॥६७॥ ईश्वराः सुगताः पौरा बुद्धा यत्र च जिष्णवः । अर्हन्तोऽपि शिवासक्ताः किं चित्रं वर्ण्यते परम् ॥६॥ 10 तस्मादहमिह श्रेष्ठिन् ! आगतो यदि तत्पुरम् । प्रत्यक्षं वीक्ष्यते दृष्ट्या कृतार्थों जायसे तदा ॥१९॥ श्रुत्वा सार्थपतिप्रोत साधुधुर्यः सलक्षणः । समपद्यत सद्योऽसौ प्रल्हादनपुरोन्मनाः ॥७॥ क्रमेण लभ्य सम्बन्धं विधाय स्ववशे ततः। 15 तेनैव सार्थपतिना साधं पन्थानमाश्रयत् ॥७१॥ प्रल्हादनपुरं पाप सोऽप्यच्छिन्नप्रयाणकैः। विशतः पुरमध्ये तु शकुनास्तस्य जज्ञिरे ॥७२॥ यथापोतकी दक्षिणे पक्षे प्रदेश(शे)शाद्वले स्थिता । दृष्टा सुचेष्टा कृत्वाऽथ पृथ्वारावं शिरःसमम् ॥७३॥ . 20 वामं यात्वा तरौ तत्र सहकारे न्यवीविशत् । तत्र स्थिताया भक्ष्याप्तिः स्वयमेवास्यगाऽभवत्॥७॥ [युग्मम्] मणिकण्ठोऽपि सोत्कण्ठो दक्षिणाद् वामगोऽभवत् । श्वा सुस्थाने मूत्रयित्वा वामाद् दक्षिणमागमत् ॥७५॥ तदन्तर्विशतस्तस्य श्रीवामेयजिनेशितुः। 25 रथः संमुखमायातः ससङ्घोऽथ पुरेऽभ्रमत् ॥७६॥ तदाऽवदच्छाकुनिको मारवः सार्धभागतः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy