SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीय: प्रस्तावः । 100 वासमासेदुषस्तस्य धर्मकर्मजुषस्तथा । प्रसिद्धिरासीत् स यथा ह्युपमानमभूत् सताम् ॥१॥ अस्याभूद् वरदेवाह्नो वरदेव इवात्मजः । चित्रं यः सुमनास्त्वपि न सुरालयसंस्थितिः ||२|| 5 क्रमेण वेसटः सूनुं नियोज्य गृहसम्पदि । स्वयं गृहीत्वाऽनशनं शुभध्यानो दिवं ययौ ॥३॥ पितेव वरदेवोऽपि पालयन् पौरमुख्यताम् । लोकोपकारं कुर्वाणः ख्यातोऽभूत् क्षितिमण्डले ॥४॥ क्रमेण तस्य पुत्रोऽपि जिनदेवाहयोऽभवत् । 10 जिनदेव पदद्वन्द्वसमाराधनबद्धधीः ॥५॥ पिताऽपि तस्मिन् संयोज्य गृहभारमपारधीः । स्वयं स्वर्गमगाद् ग्रामं ग्रामादिव पथि स्थितः ||६|| जिनदेवः सदा देवपूजादिकरणोद्यतः । काल निनाय सोऽपायरहितं महितः सताम् ॥७॥ 15 तस्याथ समये सूनुरनूनगुणसेवधिः । बभूव भूधव श्रेणिमान्यो नागेन्द्रनामकः ॥८॥ यः शेष इव सत्याहो गोत्रोद्धारकरत्वतः । किन्तु तस्य द्विजिह्नत्वं नासीश्च कुटिला गतिः ॥९॥ तस्मिन्नात्तभरे पुत्रे जिनदेवः कदाचन । Jain Education International Leas 20 निशाशेषे मुक्तनिद्रो निस्तन्द्रः समचिन्तयत् ॥ १०॥ विश्वस्मिन्नपि विश्वेऽत्र वस्तूनि सकलान्यपि । क्षणिकानि निरीक्ष्यन्ते प्रत्यक्षं स्वयमंगिभिः ॥ ११ ॥ तथाऽपि निविडप्रीतियन्त्रिता वपुरादिषु । न कुर्वन्ति हितं धर्मं दत्तं येन धनादिकम् ॥१२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy