SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोचारप्रबंधः । १९ ययौ तत्र च यत्रास्ति खेचरो नगराद् बहिः ॥२३२॥ विद्याधरपरीवारं दिव्याम्बरविभूषणम् । विलोक्य विस्मितो राजा नाकः किं भुवमागतः ॥२३३॥ मन्दुरा हस्तिशाला च(वा)पूर्णा वाजि-मताजैः । 5 पश्यन्नास्यत् तदा सद्यो निजैश्वर्यमदं नृपः ॥२३॥ अथोत्तीर्य गजाद्राजा सौधान्तः प्रविवेश सः । जलकान्ततले वारिभ्रान्स्योर्ध्व वस्त्रमाददे ॥२३५॥ वेत्री प्राह हलित्वा ते नेदं जलमियं मही । कोऽयं ते भ्रभो भूप! किं गृहोव्यों जलं भवेत् ॥२३६॥ 10 ततो विलक्षोऽने गच्छन् कचिद्रनमयोतुना । जीवतेव पुरो याता दुःशकुन इति स्थितः ॥२३७॥ विलम्ब्याथ पुरो गच्छन् सोऽपश्यत् शालभलिकाः । कुर्वतीः सर्वकार्याणि सजीवा इव सर्वतः ॥२३८॥ सचित्राणि विचित्राणि पश्यन्नैवंविधान्यथ । 15 आरुरोह नृपः सौधे सप्तमी भूमिमद्भुताम् ॥२३९॥ तत्र सिंहासनासीनो विद्याधरशिरोमणिः । वीस्य क्षितिपमायान्तमभ्युत्तस्थौ स सादरः ॥२४०॥ प्रणम्य भूपति सद्यः स्वासने संनि(न्य)वेशयत् । कान्ताहताऽथ सा तत्र प्राप्ता मदनमजरी ॥२१॥ 20 सा प्रणम्य पितुः पादौ प्राञ्जलिः पुरतः स्थिता। सोऽपि स्वपुत्री विज्ञाय विखिनास्मा वि(व्य)चिन्तयत् ॥२४२॥ मा विधेहि विधे! जातु वंशे कस्यापि नन्दिनी । घुणावलीव या जन्मस्थानं दूषयति क्षणात् ॥२४३॥ चपलेव चला नारी नदीवनीचगामिनी । 25 क्षणरागा च सन्ध्येव ततोऽसौ कुलदक्षिका ॥२४॥ प्रत्यक्षा विदधे शखी खी देवेन] नाशकारिणी । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy