SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोखारप्रबंधः। देव ! विज्ञपयत्येवं मन्मुखेन महाजनः। महाजनस्यामिलित्वा देवपादानां सिंहद्वारमुपस्थितः ॥६॥ मारियाचनम् । यदस्ति देव! ऋषभस्वामिचैत्यमिहोत्तमम् । द्वाभ्यां पञ्चाशदेवकुलिकाभिर्विभूषितम् ॥६५॥ 5 चैत्येऽत्र मूलबिम्बस्यारात्रिकं जायते यदा । तदा द्विपञ्चाशतोऽपि भवेयुस्तानि तत्समम् ॥६६॥ प्रतिवर्ष षष्टयधिकत्रिशतेषु दिनेष्वपि । अवाहिका विधीयन्ते तत्र नित्यमुपासकैः ॥६७॥ शुकनासस्थिताः सिंहा यत्र व्यात्तानना बभुः । 10 पापेममिवागच्छन्तं वीक्ष्य हन्तुं समुद्यताः ॥६८॥ उत्तुङ्गः पृथुलो यस्य पुरस्ताद्रङ्गमण्डपः । भाति पुण्यश्रियः पुत्र्याः स्वयंवरकृते कृतः ॥६९॥ भान्ति यस्मिन् शातकुंभकुम्भाः प्रासादमौलिगाः । पुण्यपद्मागममहे न्यस्ता पूर्णघटा इव ॥७॥ 15 रथस्य देवतस्तस्य भविष्यति पुरेऽधुना (१)। यात्रा ततो जीवमारिवारणं याचते जनः ॥७॥ स्मित्वाऽऽह नृपतिः श्रेष्ठिन् ! धर्मेऽस्मिन् वणिजां सदा । अमारिघोषणं पूर्व कार्यते पृष्ठतोऽपरम् ॥७२। श्रेष्ठयाह वणिजां धमों न संगतमिदं वचः। 20 यतो मन्दाकिनीतीर्थ किं कस्यापि हि पैत्रिकम् ॥७३॥ धर्म करोति यः प्राणी स एव फलमश्नुते । य एव भोज्यमश्नाति तृप्तः स स्यान्न चापरः ॥७॥ धर्मोऽयं क्षत्रियैरेव क्रियते सत्त्वशालिभिः । न तु सम्यक् त्रिभागोनमृत्तिकोत्पन्ननैगमैः ॥७५॥ 25 ये सन्ति वणिगाराध्या देवा देव! जिनेश्वराः । । इतोऽपि ये भविष्यन्ति ते क्षत्रियकुलोद्भवाः ॥७६॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy