SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ३१४ त्रयोदशं षोडशकम् सिद्धान्तकथा 8 योगत्रयप्रकाशनम् स्वसमयप्रवृत्तिः सत्सङ्गमश्च = सत्पुरुषसङ्गश्च मृत्योः परिभावनं चैव सर्वदा सर्वङ्कष - त्वादिरूपेण, दुष्कृतानां = पापानां सुकृतानां च पुण्यानां यो विपाकः = अनुभवः तदालोचनं तद्विचारणं हेतु| फलभावद्वारेण । अथ अनन्तरं मूलं कारणं अस्यापि = गुरुविनयस्य सर्वमेतत्समुदितं एतदर्थसिद्धेर्गुरुविनयमूलत्वात् ॥ १३ / १५ || अस्यैव सर्वस्याऽऽदेयतामुपदर्शयन्नाह -> एतस्मिन्नित्यादि । एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्तव्यः । आमूलमिदं परमं सर्वस्य हि योगमार्गस्य ॥१३ / १६ ॥ एतस्मिन् खलु = अस्मिन्नेव प्रागुक्ते सिद्धान्तकथादौ यत्नः = आदरो विदुषा = सुधिया सम्यक् = समीचीनः सदैव कर्तव्यः; आमूलं = अभिव्याप्त्या कारणं इदं सिद्धान्तकथादि परमं प्रधानं सर्वस्य हि = योगमार्गस्य ॥ १३/१६॥ यतो = = Jain Education International = ॥ इति त्रयोदशं साधुसच्चेष्टा- षोडशकम् ॥ कल्याणकन्दली | तित्थयरकुलाणुरूवधम्माणं । कुज्झा कहं जईणं संवेगविवणं विहिणा ॥ ९०२ || जिणधम्मसुट्ठिआणं सुणिज्ज चरिआई पुब्व| साहूणं । साहिज्जइ अन्नेसिं जहारिहं भावसाराई ||९०३ || - इति । मृत्योः परिभावनं चैव सर्वदा सर्वषत्वादिरूपेण यथा छायामिसेण कालो सयलजीयाणं छलं गवेसंतो । पासं कहवि न मुंचइ, ता धम्मे उज्जमं कुराह ॥ [ ] इति वैराग्यशतकादिवचनैः । उत्तराध्ययनेऽपि -> जहेव सीहो व मियं गहाय मच्चु नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालंमि तंमि सहरा भवंति ॥ <- [१३ / २२] इत्युक्तम् । | आचाराङ्गेऽपि -> नत्थि कालस्स णागमो - • [ १ / २ / ३] इत्युक्तम् । तदुक्तं पञ्चसूत्रेऽपि धर्मजागरिकायां भीसणो मच्चू, सव्वाभावकारी, अर्विनायागमणो, अणिवारणिजो पुणो पुणोऽणुबंधी <- [२/१०] इत्यादिकम् । धर्मोपदेशकुलकेऽपि -> नियमत्थओवरिगयं जइ मधुं पेच्छई इमो लोगो । तो नाहारे वि रुई करेज्ज किमकज्जकरणम्मि ॥ ←- [८] इत्युक्तम् । अन्यैरपि -> गृहीत इव केशेषु मृत्युना धर्ममाचरेत् < [] इत्युक्तम् । पापानां योऽनुभवः तद्विचारणं, यथा -> शक्रेणाऽऽपन्निषेधार्थं यः सिद्धार्थो न्ययुञ्जत । गोशालोत्तरवेलायां जजृम्भे सोऽपि नान्यदा । - [ ] इति । एवं सुकृतविपाकालोचनमपि भावनीयम् । प्रकृतविशेषणविशिष्टं सदाचारपालनं तु परैः विचारणाभिलापेन वर्ण्यते, तदुक्तं महोपनिषदि -> शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा - || २९५ || एतदर्थसिद्धेः = परमार्थतः सिद्धान्तसत्कथाद्यर्थप्राप्तेः गुरुविनयमूलत्वात्, गुरुविनयं विना प्राप्तस्य सिद्धान्तश्रवणादेः धनकीर्त्यादिवस्त्वन्तरोपायत्वेऽपि न | परमार्थसाधकत्वमिति ध्येयम् । इदमेवाभिप्रेत्य बृहत्कल्पभाष्येऽपि -> विणयाऽहीया विज्जा देंति फलं इह परे य लोगम्मि । न फलंति विणयहीणा सस्साणि व तोयहीणाई || ५२०३ || - इत्युक्तम् । इत्थञ्च योगत्रिकावेदनमकारि, तदुक्तं भागवते -> योगास्त्रयो मया प्रोक्ता भक्ति-ज्ञान-क्रियात्मका: <- [११/२०/६] । पञ्चमादिषोडशकेषु भक्तियोगः प्रदर्शितः, एकादशे षोडशके ज्ञानयोग उपदर्शितः, नवमे षोडशके इह च क्रियायोगो दर्शितः इति ध्येयम् ॥१३ / १५ ॥ -> मूलग्रन्थे दण्डान्वयस्त्वेवम् विदुषा एतस्मिन् खलु सदैव सम्यक् यत्नः कर्तव्यः हि सर्वस्य योगमार्गस्य इदं परमं आमूलम् ॥१३ / १६ || योगदीपिका स्पष्टा ॥१३/१६॥ इति मुनियशोविजयविरचितायां कल्याणकन्दल्यां त्रयोदशषोडशक- योगदीपिकाविवरणम् । * गुरुविनयना हारलोने अपनावीखे टीडार्थ :- [૧] જૈન આગમિક સિદ્ધાન્તોની કથા = પ્રવૃત્તિ કરવી. [૨] સત્પુરુષોનો સંગ કરવો. [૩] ‘સર્વદા સર્વ જીવોને મૃત્યુ પોતાના તરફ ખેંચી રહ્યું છે' ઈત્યાદિ સ્વરૂપે મૃત્યુની સર્વતોમુખી ભાવના-વિચારણા કરવી. [૪] હેતુમુખે અને ફળમુખે પાપ અને પુણ્યના વિપાકની = અનુભવની વિચારણા કરવી. આ ચારેય ભેગા થયેલા ગુરુવિનયના સાક્ષાત્ કારણ છે. આ ચારેયની અર્થથી [માત્ર શબ્દથી નહિ] સિદ્ધિ થવી એ ગુરુવિનયનું મૂળ કારણ છે. [૧૩/૧૫] “બધાને માટે આ જ ઉપાદેય = ગ્રહણ કરવા યોગ્ય છે' એવું બતાવતા ગ્રંથકારથી કહે છે કે ગાથાર્થ :- વિદ્વાને આમાં જ સદાય સમ્યક્ યત્ન કરવો જોઈએ, કારણ કે બધા યોગમાર્ગનું આ જ પરમ વ્યાપક કારણ छे. [१३/१९ ] ઢીકાર્થ :- પૂર્વોત સિદ્ધાન્તકથા વગેરેમાં જ વિદ્વાને સદૈવ સમ્યક્ આદર કરવો જોઈએ. કારણ કે આ સિદ્ધાન્તકથા વગેરે જ બધા યોગમાર્ગનું પરમ અભિવ્યાપ્ત सर्वव्यापी राग छे. [13/१९] १. मुद्रितप्रती ' प्रधानं' इति नास्ति । = = For Private & Personal Use Only www.jainelibrary.org
SR No.004834
Book TitleShokshaka Prakarana Part 2
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay of Jayaghoshsuri
PublisherDivya Darshan Trust
Publication Year2000
Total Pages250
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy