SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्री विजयानंदाभ्युदयम् महाकाव्यम् ।। रसानारसज्ञः । साहित्यस्यालंकारविषयस्य ध्वन्यादिकाव्यमर्मणइतियावत् । यो सारस्तत्वं तस्य रसने स्वदने " रसनं स्वदने ध्वनौ । इति मेदिनी" रसनारसज्ञः । जीह्वास्वादस्य ज्ञाता । च मतिमान् बुद्धिमान् । एवंविधो यो भव्यव्रजो मोक्षार्हजनसमूहस्तावकं भवत्संबंधिनमिममेनं स्तवं स्तुतिमधीते स वै निश्चयेन “स्युरेवं तु पुनर्वैवत्यवधारणवाचकाः । इत्यमरः निखिलं समस्तं पापमघं प्रविहाय प्रकर्षेण त्यक्त्वा भवतः संसारतोऽभिमुक्तः समंताद्रहितो भवति जायते मोक्षं प्रयातीतियावदिति । । २७६ 71 હે મુનિરાજ! અલંકારના સારનો સ્વાદ લેવામાં જીહ્વાના રસને જાણનારો જે બુદ્ધિવાન ભવ્યલોકોનો સમૂહ તમારી આ સ્તુતિ ભણે છે, તે ખરેખર સર્વ પાપને તજીને સંસારથી રહિત थाय छे. ।। अथ पुनरप्यस्य मुनीशस्य प्रकारांतरेण स्तवनमाहात्म्यं वर्णयन्नुपसंहरन्सन्स्तुतिमाह । एवंविधां स्तुतिमिमामनवद्यरूपां । काव्यज्ञचित्तरसदां गुरुभक्तिरम्याम् ॥ नित्यं जनः पठति यः पुरुषोत्तमं हि । तं मानतुंगमवशा समुपैति लक्ष्मीः ॥ ४७ ॥ ।। एवंविधामिति ।। एवंविधामित्थंप्रकारामनवद्यरूपामगर्ह्यस्वरूपां च काव्यज्ञचित्तरसदां । काव्यं जानतीति काव्यज्ञास्तेषां चित्तेषु मनस्सु रसदां स्वादप्रदां । च गुरुभक्तिरम्यां । गुरोः श्रीविजयानंदसूरीश्वरस्य या भक्ति: सेवा तया रम्यां मनोहरां । इमां पूर्वोक्तां स्तुतिं स्तवनं यो जनो मनुष्यो नित्यं सर्वदा पठति भणति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004562
Book TitleVijayanand abhyudayam Mahakavyam athwa Atmaramji charitam
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages400
LanguageGujarati
ClassificationBook_Gujarati & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy