SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ સંસ્કૃત બીજી ચેપડી 265 मुखानि / कदा कुतहललोललोचनो मणिकुट्टिमेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनःप्रतिबिम्बानि / कदा नरेन्द्रसहस्रप्रसारितभुजयुगलाभिनन्धमानागमनो भूषणमणिमयूखलेखाकुली क्रियमाणलोलदृष्टिरास्थानस्थितस्य मम पुरः पर्यटिष्यति सभान्तरेषु / इत्येतानि चान्यानि मनोरथशतानि चिन्तयतोऽन्तः संतप्यमानस्य यान्ति रजन्यः। मामपि दहत्येवायमहर्निशमनल इवानपत्यतासमुद्भवः शोकः। शून्यमिव मे प्रतिभाति जगत् / अफलमिवाखिलं पश्यामि जीवितं राज्यं च / अप्रतिविधेये तु विधातरि किं करोमि। तन्मुच्यतां देवि शोकानुबन्धः / आधीयतां धैर्ये धर्म च धी:। धर्मपरायणानां हि सदा समीपसंचारिण्यः कल्याणसंपदो भवन्ति / एवमभिधाय सलिलमादाय स्वयं करतलेनाभिनवपल्लवेनेव धिकचकमल-तुल्यमाननमस्याःसाश्रुलेखं ममार्ज।
SR No.004488
Book TitleSanskrit Mandirant Praveshika
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1990
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy