________________ एवं स्थितायामेतस्यां, शोचेन्नो चेदसौ कथम् / / शोकादित्यम्बयाऽप्यात्मा, त्यक्तः पश्यतं एव मे // 188 // तदा मम मनाक् शुष्कं, शैलेन्द्रियं विलेपनम् / .. स्नेहविह्वलभावेन, पश्चात्तापः कृतः क्षणम् // 189 // पुरुषाः कठिनस्वान्ताः, स्त्रीविनाशे रुदन्ति के। शैलस्येत्यवष्टम्भात्, स्थितस्तूष्णीमहं ततः // 190 // इत: कदलिकाऽऽयाताऽन्वेष्टुं तत्रैव मातरम् / सा मदम्बाप्रिये दृष्ट्वा, मृते चक्रे महारवम् महान् कोहाहलो जातः, सतातं मिलितं पुरम् / . किमेतदिति पृष्टा च, जानाना साऽखिलं जगौ ___ // 192 // तातायादर्शयल्लीनं, स्फुटश्चन्द्रोदयोऽथ माम् / धिक्कृतोऽहं ततः पित्रा, सम्प्रत्ययमुपेयुषा // 193 // अथाम्बानरसुन्दर्योर्मतकार्यं विधाय सः / मत्कर्म दारुणं दृष्ट्वा, चिन्तयामास चेतसि // 194 // अहो अनर्थपुञ्जोऽयमहो एष कुलानलः / . प्रयोजनं न पुत्रेण, ममानेन दुरात्मना. // 195 // इत्थं विचार्य तातेन, गृहान्निष्काशितो बहिः / विचरामि स्म निःश्रीकः, पुरेऽहं तत्र दुःखितःबालानामपि गम्योऽहं, तदा जातो विगर्हितः / तथापि चिन्तयामि स्म, महामोहरथस्य गौः। // 197 // तातेनाऽपि परित्यक्तो, निन्दितोऽप्यखिलैर्जनैः / शैलराजमृषावादाश्रितोऽहं नास्मि दुःखितः // 198 // प्रभावादनयोरेव, पूर्वं भुक्तं मया सुखम् / .. . पुनर्भीक्ष्ये च कालस्यानुकूल्यानात्र संशयः / // 199 // 146