________________ // 60 // // 61 // प्रत्यक्षमविसंवादि ज्ञानमिन्द्रियगोचरम् / .. लिङ्गतोऽनुम(मि) तिधूमादिव वढेरवस्थितिः अनुमानं त्रिधा पूर्वं शेषं सामान्यतो यथा / दृष्टेः सस्यं नदीपूराद् वृ-ष्टिरस्ताद्रवर्गतिः ख्यातं सामान्यतः साध्यं साधनं चोपमा यथा / स्याद् गोवद् गवयः सानादिमत्त्वमुभयोरपि आगमश्चाऽऽप्तवचनं स च कस्याऽपि कोऽपि च / वाच्याप्रति(ती)तौ तत्सिद्ध्यै प्रोक्ताऽर्थापत्तिरुत्तमैः बहुपीनोऽह्नि नाऽश्नाति रात्रावित्यर्थतो यथा / पञ्चप्रमाणसामर्थ्य वस्तुसिद्धिरभावतः स्थापितं वादिभिः स्वं स्वं मतं तत्त्वप्रमाणतः / तत्त्वं सत्परमार्थेन प्रमाणं तत्त्वसाधकम् सन्तु सर्वाणि शास्त्राणि सरहस्यानि दूरतः / एकमप्यक्षरं सम्यक् शिक्षितं नैव निष्फलम् .. // 62 // . // 63 // // 64 // // 65 // अज्ञातकर्तृका // अनुमानमातृका // अविनाभूताल्लिङ्गाद्विज्ञानं लिङ्गिनोऽनुमानं स्यात् / लिङ्गस्य लिङ्गिना सह या व्याप्तिः सोऽविनाभावः यौगदृगपेक्षया तत्पञ्चांशं ते प्रतिज्ञया (1) हेतुः (2) / दृष्टान्तः (3) सोपनयो (4) निगमनम् (5) इति निगदिता विदुरैः 2 श्रितसाध्यधर्मपक्षाऽपरनामकर्मिगी: प्रतिज्ञाख्यः / प्रथमो यथेह पृथ्वीधरे बृहद्भानुरिति हेतुः / 16