SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ काश्चित्पूर्णसमृद्धयः सतनयाः काश्चिच्चिरं काश्चन क्षीणाशेषरुजो भवन्ति विलसत्सौभाग्यभाजः पराः // 28 // जङ्घालैः किरणोर्मिभिः शितिमणीनाकल्पगान् मौक्तिकच्छायान् मौक्तिकगुच्छकान् शितिमणिच्छायान् मुहुः कुर्वतः / देवाद्यत्र शशाङ्ककान्तवपुषः शेषः समालम्बते शेषाद् गारुडरत्ननिर्मिततनोर्देवः पुनस्तां श्रियम् // 29 // दिक्चक्राक्रमणप्रमोदितजगच्चेतोभिराच्छोटितास्तेजोभिर्बहलांशुमांसलमणिप्रालम्बलम्बात्मभिः / शेषाहेरिव देवमूर्द्धनि कृतच्छत्रस्य संदर्शनात् यत्र स्नेहभृतोपि बिभ्रति संदा मन्दां शिखां दीपकाः // 30 // आवेशं संहरन्तः शशिमणिवपुषः स्तम्भवेदीविटण्कस्थालीविश्रान्तिभाजः प्रतिदिशमनिशं तामसं यत्र दीपाः / आतन्वन्तः पतङ्गप्रथितमुभयमप्यात्महासप्रयासं मुञ्चन्ते वीतरागक्रमसविधनशादञ्जनस्नेहमैत्रीम् अस्मिन्नास्थां स धत्तां चिरमधिमनसं यस्य साक्षादिक्षा स्वर्गस्वर्णाद्रिकूटस्फटिकगिरितटीरोहणान्तःस्थलीषु / आरुह्योत्तुङ्गशृङ्गां गुरुशिखरशिखां यत्र देशांतरस्थानित्थं संबोधयन्ति प्रचलपटमयैः पाणिभिः केतुदण्डाः // 32 // यस्मिन् गाङ्गेयकुम्भव्रजवमितमहः काण्डसंश्लेषदोषाद् दिक्चक्राकान्तिधीरैः शशिनि सहगते पीतिमानं करौघैः / निद्रालून् केलिकीरांस्तरजललवांश्चन्द्रकान्तप्रकोष्टान् ज्योत्स्नालोलांश्चकोरान्नगरमृगदृशो वीक्ष्य रात्रि विदन्ति // 33 // श्रुत्वा श्रुत्वा वहद्भिः पुलकबहलितां गात्रयष्टिं समाजै- . र्लोकानां वर्ण्यमानां गुरुविभवजितस्वर्णसौभाग्यलेखाम् / 1
SR No.004456
Book TitleShastra Sandesh Mala Part 06
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy