________________ // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // न चाद्वेषे विशेषस्तु कोऽपीति प्राग् निदर्शितम् / ईषद्रागाद्विशेषश्चेदद्वेषोपक्षयस्ततः उत्कटयनुत्कटत्वाभ्यां प्रतियोगिकृतोऽस्त्वयम् / नैवं सत्यामुपेक्षायां देशमात्रवियोगतः सत्यं बीजं हि तद्धेतोरेतदन्यतरार्जितः / क्रियारागो न तेनातिप्रसङ्गः कोऽपि दृश्यते अपि बाध्या फलापेक्षा सदनुष्ठानरागकृत् / सा च प्रज्ञापनाधीना मुक्त्यद्वेषमपेक्षते / अबाध्या सा हि मोक्षार्थशास्त्रश्रवणघातिनी / मुक्त्यद्वेषे तदन्यस्यां बुद्धिर्मार्गानुसारिणी . तत्तत्फलार्थिनां तत्तत्तपस्तन्त्रे प्रदर्शितम् / मुग्धमार्गप्रवेशाय दीयतेऽप्यत एव च इत्थं च वस्तुपालस्य भवभ्रान्तौ न बाधकम् / गुणाद्वेषो न यत्तस्य क्रियारागप्रयोजकः . जीवातुः कर्मणां मुक्त्यद्वेषस्तदयमीदृशः / गुणरागस्य बीजत्वमस्यैवाव्यवधानतः धारालग्नः शुभो भाव एतस्मादेव जायते / अन्तस्तत्त्वविशुद्ध्या च. विनिवृत्ताग्रहत्वतः अस्मिन् सत्साधकस्येव नास्ति काचिदूबिभीषिका / सिद्धेरासन्नभावेन प्रमोदस्यान्तरोदयात् चरमावर्तिनो जन्तोः सिद्धेरासन्नता ध्रुवम् / भूयांसोऽमी व्यतिक्रान्तास्तेष्वेको बिन्दुरम्बुधौ मनोरथिकमित्थं च सुखमास्वादयन् भृशम् / पीड्यते क्रियया नैव बाढं तत्रानुरज्यते 177 . . . // 24 // // 26 // // 28 // // 29 //