________________ | ग्लानौषधादिज्ञातात्त्याग: 31 (257) / तथा गुरुनिवेदनम् 32 (258) / अनुग्रहधियाऽभ्युपगमः 33 (259) / निमित्तपरीक्षा 34 (260) / उचितकालापेक्षणम् 35 (261) / उपायतः कायपालनम् 36 (262) / भाववृद्धिकरणम् 37 (263) / अनन्तरानुष्ठानोपदेशः 38 (264) / शक्तितस्त्यागतपसी 39 (265) / क्षेत्रादिशुद्धौ वन्दनादिशुद्ध्या शीलारोपणम् 40 (266) / असङ्गतया समशत्रुमित्रता शीलम् 41 (267) / अतोऽनुष्ठानात् तद्भावसम्भवः 42 (268) / तपोयोगकारणं चेति 43 (269) / एवं यः शद्धयोगेन परित्यज्य गहाश्रमम् / संयमे रमते नित्यं स यतिः परिकीर्तितः // 22 // एतत्तु संभवत्यस्य सदुपायप्रवृत्तितः / अनुपायात्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः . // 23 // यस्तु नैवंविधो मोहात् चेष्टते शास्त्रबांधया। स तादृग्लिङ्गयुक्तोऽपि न गृही न यतिर्मत: // 24 // __.. ॥पञ्चमः अध्यायः // 'बाहुभ्यां दुस्तरो यद्वत् क्रूरनको महोदधिः / यतित्वं दुष्करं तद्वत् इत्याहुस्तत्त्ववेदिनः / // 25 // अपवर्गः फलं यस्य जन्ममृत्य्वादिवर्जितः / परमानन्दरूपश्च दुष्करं तत् न चाद्भुतम् . . // 26 // भवस्वरूपविज्ञानात् तद्विरागाच्च तत्त्वतः / अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् // 27 // . इत्युक्तो यतिः, अधुनाऽस्य धर्ममनुवर्णयिष्यामः, यतिधर्मो द्विविधः सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च 1 (270) / तत्र सापेक्षयतिधर्मः 2 (271) / गुर्वन्तेवासिता 3 (272) / तद्भक्ति-बहुमानौ 4 (273) / .61 ...