________________ // 137 // // 138 // // 139 // ... . // 140 // ... // 141 // // 142 // क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि / कृपायतनमन्येषां सुखसंपद्विवर्जिताः क्रियोपेताश्च तद्योगादुदग्रफलभावतः / मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः क्रियातिशययोगे च मुक्तिः केवलिनोऽपि हि / नान्यदा केवलित्वेऽपि तदसौ तन्निबन्धना फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते / तयोरपि च तद्भावः परमार्थेन नान्यथा साध्यमर्थं परिज्ञाय यदि सम्यक् प्रवर्तते / ततस्तत्साधयत्येव तथा चाह बृहस्पतिः सम्यक्प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते / तदप्राप्तावुपायत्वं न तस्या उपपद्यते असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् / साध्यानारम्भिणश्चेति द्वयमन्योऽन्यसंगतम् अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते / आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि / तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते / मालतीगन्धगुणविद्दर्भे न रमते ह्यलिः मुक्तिश्च केवलज्ञानक्रियातिशयजैव हि / तद्भाव एव तद्भावात्तदभावेऽप्यभावतः न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते / .. स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः // 143 // // 144 // // 145 // // 146 // // 147 // // 148 // 192