SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 146 परिशिष्टम् 2-C,D,E ध्ययने चिकित्सा प्रतिपाद्यते 5 / गुणधारणा चेव त्ति गुणधारणा प्रत्याख्यानाध्ययने अर्थाधिकारः / अयमत्र भावार्थः - मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते 6 / चशब्दादन्येऽप्य पान्तरालार्थाधिकारा विज्ञेयाः, एवकारोऽवधारण इति गाथार्थः / / C आव०नि० 798 [चतु. गा० 2 0] जो समो सव्वभूएसु तसेसु थावरेसु य / तस्स सामाइयं होइ, ईई केवलिभासियं / / 128 / / / हावृ० जो समो गाहा, यः समः तुल्यः सर्वभूतेषु सर्वजीवेषु, भूतशब्दो जीवपर्यायः, त्रस्यन्तीति प्रसाः द्वीन्द्रियादयस्तेषु, तिष्ठन्तीति स्थावराः पृथिव्यादयस्तेषु च, तस्य सामायिकमित्यादि पूर्ववत् / तस्येत्थम्भूतस्य सत्त्वस्य सामायिकं भवति / इतिशब्दः सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः / / 128 / / हे०वृ० जो समो इत्यादि, यः समः सर्वत्र मैत्रीभावात् तुल्यः सर्वभूतेषु सर्वजीवेषु त्रसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि के वंलिभाषितम्, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात् पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद् धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति / / 128 / / D उत्तरा अध्य० 29, सू. 9 [चतु. गा० 3 वृ०] चउवीसत्थएणं भंते ! जीवे किं जणयइ ? दंसणविसोहिं जणयइ / / 9 / / सामायिकं च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्याः, ते च तत्त्वतस्तीर्थकृत एवेति तत्सूत्रमाह - चतुर्विशतिस्तवेन एतदवसर्पिणी प्रभवतीर्थकृदुत्कीर्तनात्मकेन दर्शनंसम्यक्त्वं तस्य विशुद्धिः / तदुपघातिकमांपगमतो निर्मलीभवनं दर्शनविशुद्धिस्तां जनयति / / 9 / / E आव०नि० 1215 [चतु० गाथा० 4 व.] गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम्, अधुना किमिति क्रियत इति द्वारम्, तत्र वन्दनकरणकारणानि प्रतिपादयन्नाहविणओवयार माणस्स मंजणा पूयणा गुरुजणस्स / तित्थयराण य आणा सुअधम्माराहणाऽकिरिया।।१२१५ / /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy