SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अवचूरिवृत्तिसहितं चतुःशरणम् गुण० शुभपरिणामो नित्यं सदैव चतुःशरणगमनाद्याचरन् कुर्वन् साधुप्रभृतिको जीवः कुशलप्रकृतीः पुण्यप्रकृतीद्विचत्वारिंशत्सङ्ख्या बध्नाति, तथा ताश्च 'प्रकृतीर्बद्धाः सतीविशिष्टाध्यवसायवशात् शुभानुबन्धाः शुभोत्तरकालफलविपाकाः करोतीति गम्यमित्यर्थः / / 59 / / मंदणुभावा बद्धा तिव्वणुभावाओ कुणइ ता चेव / असुहाओ निरणुबंधाओ, कुणइ तिव्वाओ मंदाओ / / 60 / / सोम० तथा ता एव शुभप्रकृतीः प्राग्मन्दानुभावाद् बद्धाः स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायविशेषात्तीव्रोऽनुभावो रसो यासां तास्तीव्रानुभावाः अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्धकालस्थितीः करोति, अल्पप्रदेशका बहुप्रदेशकाश्च करोतीत्यपि ज्ञेयम् / तथा 'असुहाउत्ति याश्चाशुभा "नाणंतरायदसगम्"इत्यादिगाथोक्ता द्वयशीतिसङ्ख्याः पूर्वं बद्धाः स्युस्ता निर्गतोऽनुबन्ध उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरंकाले तस्य न भवतीत्यर्थः / तथा ता एव यास्तीवास्तीवरसाः प्राक्तीव्राशुभपरिणामेन बद्धास्ता मन्दा मन्दरसाः करोति, चतुःशरणगमनादिरूपशुभाध्यवसायबलाद् / अत्रापि दीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाश्च करोतीत्यपि ज्ञेयम्, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां हाससम्भवात् / / 60 / / गुण० ता एव शुभप्रकृतीर्मन्दानुभावबद्धाः स्वल्पशुभपरिणामबद्धाः विशिष्टतरशुभा ध्यवसायविशेषात्तीव्रानुभावा अत्युत्कटरसाः करोति, किञ्चाल्पकालस्थितिका दीर्घकालस्थितीः करोति, अल्पप्रदेशिका बहुप्रदेशिकाश्च करोति / तथाऽशुभाद्वर्यशीतिसङ्ख्याः "नाणंतराये "त्यादिकाः पापप्रकृतीः पूर्वं बद्धा अशुभा निरनुबन्धास्तद्विपाकजनितदुःखरहिताः करोति, तीव्राश्च ताः सतीः शुभपरिणामेनैव मन्दानुभावा अल्पविपाकाः करोति, किञ्च दीर्धकालस्थितीरल्पकालस्थितीः करोति, बहुप्रदेशिका अल्पप्रदेशिकाः करोति।।६० / /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy