SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अवचूरिवृत्तिसहितं चतुःशरणम् चस्य भिन्नक्रमार्थत्वात्, ये विशेषानुष्ठानिनो विशेषलब्धिसम्पन्नाश्च तान् सार्धगाथया * दर्शयति-जिणकप्पा- गाथार्धम्, खीरासवमाहुः एकाकित्वनिष्प्रतिकर्मशरीरतया जिनस्येव कल्पो येषां ते जिनकल्पिकास्तेषामयं विधिः प्रतिपन्नजिनकल्पो यत्र ग्राम मासकल्पं चातुर्मासकं वा करिष्यति तत्र षड्भागान् कल्पयति, ततश्च यत्र भागे एकस्मिन् विषये गोचरचर्यां हिण्डति, तत्र सप्तम एव दिवसे पर्यटति / एषणादिविषयं मुक्त्वा न केनापि सार्धं जल्पति, एकस्यां च वसतौ यद्यपि उत्कृष्टतः सप्त जिनकल्पिका वसन्ति तथापि परस्परं न भाषन्ते, यापविशति तदा नियमादुत्कट एव, न तु निषद्यायाम, औपग्रहिकोपकरणस्यैवाभावात्, प्रतिपद्यमानकः सामायिकछेदोपस्थापनयोः पूर्वप्रतिपन्नसूक्ष्मसम्पराययथाख्यातचारित्रयोरुपशमश्रेण्यामवाप्यते प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वम्, पूर्वप्रतिपन्नानां सहस्रपृथक्त्वं जिनानाम्, जिनकल्पिकाः प्रायोऽपवाद नासेवन्ते, जङ्घाबलक्षीणस्त्वविहरमाणोऽप्याराधक एव, आवश्यिकीनैषेधिकीमिथ्यादुष्कृतगृहिविषयपृच्छोपसम्पल्लक्षणाः पञ्च सामाचार्यः, नत्विच्छादयः, लोचं चासौ नित्यमेव करोति, विहारो भिक्षा च तृतीयपौरुष्यामेव / यथालन्दिकास्तेषां स्वरूपमिदम्-उदकाः करो यावता कालेन शुष्यति तत आरभ्य उत्कृष्टतः पञ्चरात्रिंदिवलक्षणस्य उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते ग्रामं च गृहपङ्क्तिरूपाभिः षड्भिर्वीथीभिर्जिनकल्पिकवत्परिकल्पयन्ति, किन्त्वेकैकस्यां वीथ्यां पञ्च दिनानि पर्यटन्ति / इत्युत्कृष्टलन्दभारिणो यथालन्दिका उच्यन्ते, एते च प्रतिपद्यमानका जघन्यतः पञ्चदश भवन्ति, उत्कृष्टतः सहस्रपृथक्त्वं, पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वं भवन्ति / परिहारविशुद्धिकाच ते साधवश्च परिहारविशुद्धिकसाधवः, निर्विशमानका निर्विष्टकायिकाश्च ते, तत्र यथोक्ततपस आसेवकत्वान्निर्विशमाना उच्यन्ते, अनुपारिहारिका विहितवक्ष्यमाणतपसो निर्विष्टकायिका इति, तत्र नवानामयं कल्पो भवति, ग्रीष्मशिशिरवर्षासु पृथक्पृथक् जघन्यमध्यमोत्कृष्टभेदं तपः कुर्वन्ति, तत्र ग्रीष्मे चतुर्थषष्ठाष्ट मानि, शिशिरे षष्ठाष्टमदशमानि, वर्षासु अष्टमदशमद्वादशमानि, पारणके चाचाम्लम्, पञ्चानां भिक्षानां द्वयोर्ग्रहो द्वयोरप्यभिग्रहः, तत्र प्रथमं चत्वारो यथोक्तं तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वम्, एते च पञ्चापि प्रतिदिनं षण्मासान् यावदाचाम्लभोजिनः, षण्मासानन्तरं व्यूढतपसोऽनुपारिहारिकत्वं अनुपारि
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy