SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 84 - खण्ड-२ सर्वलाभाग्रेसरत्वात्तल्लाभस्य, सर्वचारित्रादिक्रियाणां तल्लाभे एव साफल्याच / तथा विमुक्तः परित्यक्तः करणीयपदार्थेषु संरम्म आटोपो यैस्ते तथा, निष्पन्नसर्वप्रयोजनत्वात्तेषाम् / तथा भुवनं त्रिभुवनं तदेव गृहं तस्य धरणमवष्टम्भनं तत्र स्तम्भा इव स्तम्भाः, भुवनलोकस्य दुर्गतौ पततः स्वशरणप्रतिपत्तुः स्थिराधारभूतत्वात्तेषाम् तथा निरारम्भा निर्गता बहिर्भूता आरम्भेभ्यः सर्वकृत्यप्रयोजनेभ्यो ये ते तथा कृतकृत्यत्वात्तेषाम् / ते एवम्भूताः सिद्धा मम शरणमालम्बनं भवन्तु / एतेन सिद्धाख्यं द्वितीयं शरणमभिहितम् / / 29 / / / गुण उपलब्धं प्राप्तं परमब्रह्मज्ञानं यैस्ते तथा, अवगतकेवला इत्यर्थः / सर्वलाभाग्रेसरत्वात् तल्लाभस्य दुर्लभो लामो मुक्तिप्राप्तिलक्षणो येषां ते तथा दुर्लभलाभत्वमेवार्थैर्भाव्यते। विमुक्तः परित्यक्त इतिकर्तव्यतापदार्थेषु संरम्म आटोपो यैस्ते, निष्पन्नसर्वप्रयोजनत्वात्तेषाम्, तथा मुवनं त्रिभुवनं तदेव गृहं तस्य धरणमवष्टम्भनं तत्र स्तम्मा इव स्तम्भा भुवनस्य सिद्धिशरणप्रतिपत्तुलॊकस्य दुर्गती पततः स्थिराधारभूतत्वात्तेषामित्यर्थः। तथा निरारम्भा निर्गता बहिर्भूता आरम्भेभ्यः कृत्यप्रयोजनेभ्यो ये ते तथा / ते एवंस्वरूपाः सिद्धा मम शरणं भवन्तु / / 29 / / सोम० अथ साधुशरणं प्रतिपित्सुर्यद्विधत्ते तदाहगुण० एतेन सिद्धाख्यं द्वितीयं शरणमभिहितम् / अधुना साधुशरणं प्रतिपित्सुर्यद्विधत्ते तदाह - सिद्धसरणेण नयबंभहेउसाहुगुणजणियअणुराओ / मेइणिमिलंतसुपसत्थमत्थओ तत्थिमं भणइ / / 30 / / सोम० "सिद्ध 'त्ति, नया नैगमादयस्तैरुपलक्षितं यद्ब्रह्म श्रुतज्ञानं द्वादशाङ्गरूपं 'नयभङ्ग प्रमाणगमगहन मिति वचनात्तस्य नयब्रह्मणो ये हेतवः कारणभूताः साधुगुणा विनयादयो, विनयादिगुणसम्पन्नस्यैव श्रुतावाप्तेः, तेषु नयब्रह्महेतुषु साधुगुणेषु जनित उत्पादितोऽनुरागो बहुमानो यस्य स नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता साध्वादिः / केनास्यानुरागः कृतः ? इत्याह-सिद्धशरणेन पूर्वोक्तेन / पुनः कथम्भूतः सः ? मेदिन्यां पृथ्व्यां मिलत् लुठत् सुप्रशस्तं भक्तिभरभासुरत्वान्मस्तकंमुत्तमाङ्गं यस्य
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy