SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ खण्ड-१ : श्लोक-३५, 36 ___ "जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो" / [वि.आ.भा. 800 पूर्वार्धः] ___ इह च येऽतिशयद्धिसम्पन्नाः साधवो नोक्तास्तेऽप्युपलक्षणत्वाज्ञयाः / एते च ये जिनकल्पिकादयः पदानुसारिपर्यन्तास्ते साधवः शरणं भवन्तु इति सार्धगाथार्थः / / 34 / / - अथ सर्वसाधारणगुणा ये साधवस्तान्गाथापञ्चकेनाऽऽह - उज्झियवइरविरोहा निश्चमदोहा पसंतमुहसोहा / अभिमयगुणसंदोहा हयमोहा [गयमोहा] साहुणो सरणं / / 35 / / उज्झितवैरविरोधा नित्यमद्रोहाः प्रशान्तमुखशोभाः / अभिमतगुणसन्दोहा हतमोहाः साधवः शरणम् / / 35 / / चिरकालं प्रभूतकालजं वैरम्, श्रीवीरजिनं प्रति त्रिपृष्ठभवनिहतसिंहजीवब्राह्मणबटुकपिलस्येव, विरोधः कुतश्चित् कारणात् तत्कालसम्भवोऽप्रीतिविशेषः / प्रतिमानिमित्तं उदायनचण्डप्रद्योतयोरिव / तत्र वैराणि च विरोधाश्च, उज्झितास्त्यक्ता वैराणि विरोधाश्च यैस्ते / तथा वैरहेतवो वा विरोधाः, वैरविरोधास्ततो बहुव्रीहिः / नित्वं सर्वदैव, यत एवोज्झितवैरविरोधाः, अत एवाद्रोहाः परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्रायः स्यात्, यत एवाद्रोहाः, अत एव प्रशान्ताः प्रसन्ना मुखशोभा वदनच्छाया येषां ते तथा / परद्रोहिणो हि विकरालमुखशोभा भवन्तीति, यतश्चैवंरूपा अत एवाभिमतोऽनुगतः सहचारी गुणसन्दोहो, गुणनिकरो येषां ते तथा, एवंविधानां च ज्ञानिनां च ज्ञानातिशयो भवतीति / हतो मोहो अज्ञानं यैस्ते, तथा ज्ञानिन इत्यर्थः, ते शरणं साधवो भवन्तु / / 35 / / खंडियसिणेहदामा अकामधामा निकामसुहकामा / सपुरिसमणाभिरामा आयारामा मुणी सरणं / / 36 / / खण्डितनेहदामानोऽकामधामानो निकामसुखकामाः / सुपुरुषमनोऽभिरामा आत्मारामा मुनयः शरणम् / / 36 / / खण्डितानि त्रोटितानि स्नेहरूपाणि दामानि रज्जवः, आर्द्रकुमारेणेवात्मनो ध्यातॄणां च हस्तिन इव यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, तथा न विद्यते. कामो विषयाभिलाषो धामानि गृहाणि येषां ते तथा, अथवा न विद्यन्ते कामधामानि स्मरमन्दिराणि विषयासक्तिहेतूनि येषां ते तथा / 1. भवन्ति-डर, 2. सर्वसाधुसा-डर, ड३, 3. त्रिपृष्ठभवे हतसिंह-डर, ड३, 4. वैरत एव-ल, डर, ड३, 5. अभिगमतोऽनुरागतोडर, ड३, 6. रेण वा-ड, 8,-परि-२ /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy