________________ 194 सन्दर्भग्रन्थाः विडालत्वं जातिवृषदंशे वर्तते न मनुष्ये एवं रश्मिमद्विडालस्यैव चक्षुर्भविष्यति न मानुषस्येति ? नावरणसामर्थ्यात् सत्येतस्मिन् जातिभेदे यथावृषदंशप्रभृतीनां कुड्यादिभी रश्मय आवियन्ते तथा मनुष्याणामपीति समानमेवेति / इतश्च भौतिकानीन्द्रियाणि प्रतिघातित्वात् घटवदितिवत् भूतं श्रोत्रं द्रव्यत्वे सति बाह्यप्राप्तार्थप्रकाशकत्वात् घ्राणादिवदिति // रश्म्यर्थसन्निकर्षग्रहणात्तद्ग्रहणमयुक्तमन्यथापि ग्रहणात्सूत्रः- अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः // 44 // अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः / तृणादिसर्पद्रव्यं काचेऽभ्रपटले वा प्रतिहन्यते / यदि चाक्षुषो रश्मिः प्राप्तार्थप्रकाशकः स्यात् काचाभ्रपटलैस्फटिकान्तरिते प्रकाशको न स्यात् / अस्ति तु / तस्मान प्राप्यकारि चक्षुरिति / अत एवाभौतिकं प्राप्यकारित्वं भौतिकधर्म इति / सूत्रः- कुड्यान्तरितानुपलब्धेरप्रतिषेधः // 45 // न कुड्यान्तरितानुपलब्धेरप्रतिषेध इति / अप्राप्यकारित्वे इन्द्रियस्य न कुड्याद्यावरणसामर्थ्यमस्तीत्युक्तम् / शेषं भाष्ये / / सूत्रः- अप्रतिघातात् सन्निकर्षोपपत्तिः // 46 // अप्रतिघातात् सन्निकर्षोपपत्तिः / न काचोऽभ्रपटलं वा रश्मि प्रतिबध्नाति सोऽप्रतिहन्यमानो व्यतिभिद्यार्थेन सम्बध्यते। यश्च मन्येत न भौतिकस्यास्त्यप्रतीघात इति सर्वं हि भौतिकं प्रतीघातधर्मकमिति ? तन्नसूत्रः- आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् // 47 // आदित्यरश्मेः स्फाटेकान्तरितेऽपि दाह्येऽविघातात् / न आदित्यरश्मेरविघातात् स्फटिकान्तरितेऽप्यविघाताद्दाह्येऽप्यविघातात् / अविघातादिति पदाभिसम्बन्धाद्वाक्यभेदः / नैकं वाक्यमनेकार्थं प्रतिवाक्यं चार्थभेद इति / शेष भाष्ये // ___कोऽयमविघातः ? अव्यूह्यमानावयवद्रव्यानुप्रवेश:यस्य द्रव्यस्यावयवा न व्यूह्यन्ते तस्यान्तरावयवैरव्यूह्यमानस्य योऽभिसम्बन्धः सोऽविघात इति / अन्तर्व्यवस्थितस्य वा द्रव्यस्य वाऽव्युह्यमानावयवद्रव्यस्य बहिरवस्थितद्रव्यप्राप्तिः। दृष्टं कलशे निषक्तानामेषां बहि:शीतस्पर्शग्रहणम् न हि गुणस्यास्वतन्त्रस्य गुणिनमन्तरेण बहिनिर्गमनं युक्तमिति / तत्र परिस्पन्दः तिर्यग्गमनं परिस्रवः पात इति //