________________ 173 विभाग-५ तन्न- दीपप्रभायमनैकान्तात् चक्षुषो गोलकमिव प्रभाया अपि दीपोऽधिष्ठानं तदसम्बद्धार्थ. ग्राहकत्वं प्रभायाम् / न च तत्राप्राप्यकारित्वमस्ति / __शाखाचन्द्रमसोर्युगपद्ग्रहणे यौगपद्यभिमानस्तु कालसन्निकर्षात् शतपत्रसूचिवेधवत् अचिन्त्यो हि तेजसो वेगातिशयः / केचित्तु-निस्सरन् नायनं तेजो बाह्यालोकसहकारेण युगपदेव तावदवच्छेदेन संसृष्ट. चक्षुरुत्पादयतीति शाखाचन्द्रमसोयुगपद्ग्रहणम् / न चैवं पृष्टभागस्थितानामुपलम्भापत्तिः; आभिमुख्यं त्विन्द्रियव्याप्तावेवोपयुज्यत इति वाच्यम् / पृष्टदेशस्थबाह्यालोकैः चक्षुरुत्पादे मानाभावात् चक्षुषो मूलावच्छन्निवत् पृष्टावच्छित्रस्य संयोगस्याग्राहकत्वसम्भवाच्चेत्याहुः / अनन्यगत्या वेगादिविशेषवशात् विनैव सन्निकृष्टदेशविशेषसंयोगं विप्रकृष्टदेशे संयोगान्तरावस्थितघनद्रव्यविशेषाणामेव तत्प्रतिबन्धकत्वादत्यन्ये / काचान्तरोपलब्धिस्तु काचादेरतिस्वच्छतया प्रभावन् नयनगतिविरोधित्वाभावात् / किं च चक्षुषोऽप्राप्यकारित्वे भित्त्यादिव्यवहितस्यापि ग्रहः स्यात् / भित्त्यादिकं हि प्राप्तिविघातकतयैव विरोधि, न तु स्वरुपसत्तया, तथात्वे तस्मिन् सति क्वचिदपि कार्य न स्यात् / न च तत्तद्भित्तेः स्वस्वप्राच्यादिस्थपुरुषसाक्षात्कारे स्वस्वप्रतीच्यादिवर्तित्वसंबन्धेन प्रतिबन्धकत्वं, गौरवात् / यत्तु - व्यवहितमयोग्यत्वादेन न गृह्यते; न तु व्यवहितत्वादिति - तन्न - अयोग्यत्वं हि न स्वरूपायोग्यत्वमः स्थैर्यपक्षे तस्यैव कालान्तरे ग्रहात् / क्षणिकत्वपक्षे प्रत्यासन्नानां संहकारिणामेव तत्रातिशयजनकत्वं नाप्रत्यासन्नानाम् / प्रत्यासत्तिश्च बौद्वानां निरन्तरोत्पादः / अस्माकं तु द्रव्ययोस्संयोगः तदुभयमपि कृष्णसारस्यार्थेन न सम्भवति; किं तु तदाश्रितस्यातीन्द्रियेन्द्रिस्य गतिक्रमेणेति। परे तु - अनन्तचक्षुः क्रियासंयोगविभागतत्कार्यकारणभावादिकल्पनमपेक्ष्य तत्तद्गोलकादिक्रियादेः तत्तच्चाक्षुषहेतुत्वमेवोचितमिति किमतिरिक्तचक्षुषेत्याहुः / / तच्चिन्त्यम् - चक्षुस्संयोगत्वादिना हेतुत्वस्य लाघवात्सिद्वौ फलमुखस्य गौरवस्यादोषत्वात् / यत्तु - भित्त्यादेः चक्षुस्संयोगप्रतिबन्धकत्वं त्वयापि वाच्यमिति चाक्षुषप्रतिबन्धकत्वमेव युक्तमिति - तन्न - तत्तत्क्रिया तत्तदुत्तरदेशानां तत्तदुत्तरसंयोगहेतुत्वेनानतिप्रसङ्गे भित्त्यादेः संयोगप्रतिबन्धकत्वाभावात् / स्यादेतत् - घ्राणादिकं पृथिव्यादिभ्यो भिद्यत इन्द्रियत्वात्, मनोवत्, मनसोऽपि भिद्यते महत्वात् घटवत् / युक्तं चैतत् / महतः पृथिव्यादेः रूपरसगन्धस्पर्शेष्वन्यतमोद्भवनियमात् तादृशप्रत्यक्षबाधादिति चेत् - न / घ्राणं पृथिवी, परकीयरूपाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात्, कुङ्कमगन्ध