SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसम्पादनकर्म तु प्रचुरश्रमसाध्यं अस्ति, अतः आचाराङ्गाभिधस्याऽस्थ ग्रन्थस्य सम्पादनकर्मणि मालवकेशरी व्याख्यानकार मुनिपुंगव श्री हितेशचन्द्रविजयजित् “श्रेयस" तथा मुनिराज श्री दिव्यचन्द्रविजयजित् "सुमन' इति एभिः मुनिवर्यैः आत्मीयभावेन प्रचुरमात्रायां सहयोगः प्रदत्त अस्ति अतः तेषां श्रुतज्ञानभक्तिः अनुमोदनीया अस्ति... राजेन्द्र सुबोधनी “आहोरी' हिन्दी टीकाऽन्वितस्य अस्य आचाराङ्गग्रन्थस्य प्रभूततराणि पत्राणि सञ्जातानि अतः प्रथमश्रुतस्कन्धस्य प्रथमाध्ययनस्य यानि पत्राणि सन्ति तेषां सङ्ग्रहः प्रथम-भागेऽस्मिन् पुस्तके कृतः, अस्ति... प्रथम-श्रुतस्कन्धस्य शेषाणि अध्ययनानि द्वितीयभागे लप्स्यन्ते तथा च द्वितीयश्रुतस्कन्धात्मकः तृतीयभागः भविष्यति... एवं सम्पूर्णः ग्रन्थः अस्माभिः पुस्तकत्रितये निबद्धोऽस्ति। ग्रन्थमुद्रणविधौ तु अणहिलपुर-पाटण-नगरस्थ दीप ओफ्सेट स्वामी श्री हितेशभाइ परीख एवं मून कम्प्युटर स्वामी श्री मनोजभाइ ठक्कर इत्यादि सज्जनानां सहयोगः अविस्मरणीयः भवेत्। ग्रन्थसम्पादनकर्मणि प्रेसमेटर एवं प्रुफ आदि संशोधनकर्मणि विदुषी साधनादेवी, निमेष-ऋषभ-अभयम् इत्यादि सर्वेषां असाधारणसहयोगः प्रशंसनीयः अस्ति / अन्येऽपि ये केऽपि सज्जनाः अस्मिन् ग्रन्थसम्पादनकर्मणि उपकृतवन्तः तेषां समेषां सहकारं कृतज्ञभावेन स्मरामि इति... -: निवेदयति :लीलाधरात्मज रमेशचंद्र हरिया... संस्कृत-प्राकृत व्याकरण काव्य न्याय साहित्य तीर्थ. -: अध्यापक :श्री भुवनचंद्रसूरीश्वरजी जैन तत्त्वज्ञान पाठशाला, खेतरवसी, पाटण : 384265 (उत्तर गुजरात) वीर नि. 2528 वि.सं. 2058 चैत्र शुक्ल पूर्णिमा.... दिनांक - 27-04-2002, शनिवार.
SR No.004435
Book TitleAcharang Sutram Part 01
Original Sutra AuthorN/A
AuthorJayprabhvijay, Rameshchandra L Haria
PublisherRajendra Yatindra Jainagam Hindi Prakashan
Publication Year
Total Pages390
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy