________________ सूत्र - 9-12] अशोकवृक्षवर्णनम् _ 'पउमलयाहिं 'ति पद्मलताः-स्थलकमलिन्यः पद्मकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लता:-तनुकास्त एव, तत्राऽशोक:-ककेल्ली, चूतः-सहकार :, वन:पीलुकः,वासन्तीलता अतिमुक्तकलताश्च यद्यप्येकार्था नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः, श्यामा-प्रियङ्गुः, शेषलता रूढिगम्याः // 9-11 // __ 12 -- तस्स णं असोगवरपायवस्स उवरिं बहवे अट्ठमंगलगा पण्णत्ता तं जहा-सोवत्थिय-सिरिवच्छनंदियावत्त-वद्धमाणय-भद्दासण-कलस-मच्छ दप्पणा सव्वरयणामया, अच्छा, सण्हा, लण्हा, घट्ठा, मट्ठा, नीरया, निम्मला, निप्पंका, निक्कंकडच्छाया, सप्पभा, समिरीया, सउज्जोया, पासादीया दरिसणिज्जा अभिरूवा पडिरूवा / तस्स णं असोगवरपादवस्स उवरिं बहवे किण्हचामरज्झया, नीलचामरज्या, लोहियचामरज्झया, सुकिल्लचामरज्झया हालिद्दचामरज्झया, अच्छा, सण्हा, रुप्पपट्टा, वइरामयदंडा, जलयामलगंधिया सुरम्मा पासाइया दरिसणिज्जा अभिरूवा पडिरूवा / [12] इह लतावर्णकानन्तरमशोकवर्णकं पुस्तकान्तरे इदमधिकमधीयते-'तस्स णं असोगवरपायवस्स उवरि बहवे अट्ठट्ठमंगलगा पण्णत्ता' अष्टावष्टाविति वीप्साकरणात्प्रत्येकं तेऽष्टाविति वृद्धाः, अन्ये त्वष्टाविति सङ्खया, अष्टमङ्गलकानीति च संज्ञा / 'तंजहा-सोवत्थिय 1 सिरिवच्छ 2 नंदियावत्त 3 वद्धमाणग 4 भद्दासण 5 कलस 6 मच्छ 7 दप्पणा८' तत्र श्रीवत्सः-तीर्थङ्करहृदयावयवविशेषाकारो, नन्द्यावर्तः- प्रतिदिग्रवकोणः स्वस्तिकविशेषो रुढिगम्यो, वर्द्धमानकं-शरावं, पुरुषारूढः पुरुष इत्यन्ये' भद्रासनं-सिंहासनं, दर्पण:-आदर्शः शेषाणि प्रतीतानि / 'सव्वरयणामया' 'अच्छा' स्वच्छाः आकाशस्फटिकवत्, ‘सण्हा' श्लक्ष्णाः- श्लक्ष्णपुद्गलनिर्वृतत्वात्, लण्हा' मसृणाः, 'घट्ठा' घृष्टा इव घृष्टा खरशानया प्रतिमेव 'मट्ठा' मृष्टाः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा 1. - चिह्नद्वयमध्यवर्तिपाठः [सूत्र 12] मु. JB नास्ति, v पु.प्रे अस्ति / वृत्तौ व्याख्यातोऽस्ति // 2. पु.प्रे. / समीरिया-V || 3. रुप्पमया वयरामय० पु प्रे. L || 4. क्वचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त इति शब्दसंस्कारः रायवृ. 8 A / 5. इतोऽग्रे-भगवतीसूत्रवृत्तौ प. 439 A 'स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेषमित्यन्ये' इत्यधिकम् // 6. B खं.। मण्हा-मु. / सहा लहा-इति राज.वृ. 4A | लण्हानिमसृणानि घुण्टितपटवद्-इति राज.व.प. 8A || 7. खरशाणया-इत्ति राज. वृ. 8A ||