________________ 172 श्री औपपातिकसूत्रम् चियत्तंतेउरघरदारपवेसी एयं न वुच्चइ -चउद्दसअट्ठमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे फासुएसणिज्जेणं असणपाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं पाडिहारिएणं पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे बहूई सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ // 120 // भिक्षुकत्वाद, अत एव पुस्तके लिखितं यथा 'उसियफलिहे'त्यादिविशेषणत्रयं नोच्यते, 'अवंगुयदुवारे 'त्ति अपावृत्तद्वारः- कपाटादिभिरस्थगितगृहद्वारः, सद्दर्शनलाभेन न कुतोऽपि पाषण्डिकाद्विभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीति भाव इति वृद्धव्याख्या, केचित्त्वाहु:भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वार इत्यर्थः, इदं चाम्मडस्य न घटते, 'चियत्तअंतेउरघरदारपवेसी'त्ति चियत्तोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः, अन्ये त्वाहु:-चियत्तोत्ति-नाप्रीतिकरोऽन्तःपुरगृहे द्वारेणा नापद्वारेण प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुताप्रतिपादनपरं चेत्थमिदं विशेषणं, न चाम्मडस्येदं घटते, अन्तःपुरस्यैवाभावादिति, क्वचिदेवं दृश्यते-'चियत्तघरंतेउरपवेसी 'त्ति चियत्तेत्ति-प्रीतिकारिण्येव गृहे वाऽन्तःपुरे वा प्रविशतीत्येवंशीलो यः स तथा, त्यक्तो वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा, 'चउद्दसअट्ठमुद्दिट्ठपुण्णमासिणीसु'त्ति उद्दिष्टा-अमावास्या ‘पडिपुन्नं पोसहं अणुपालेमाणे 'त्ति आहारपौषधादि-भेदाच्चतूरूपमपीति, 'समणे निग्गंथे फासुएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कम्बल-पायपुच्छणेणं' अत्र च पडिग्गहत्तिप्रतिग्रह: पतद्ग्रहो वा-पात्रं पायपुच्छणंति पादप्रोञ्छनं रजोहरणं 'ओसह भेसज्जेणंति औषधम्एकद्रव्याश्रयं भैषज्यं-द्रव्यसमुदायरूपमथवा औषधं-त्रिफलादि भैषज्यं-पथ्यं 'पाडिहारिएणं पीढ-फलग-सेज्जा-संथारएणं पडिलाभेमाणे 'त्ति प्रतिहार:-प्रत्यर्पणं प्रयोजनमस्येति प्रातिहारिकं तेन पीठम्-आसनं फलकम्-अवष्टम्भनार्थः काष्ठविशेषः शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको-लघुतरं शयनमेव ‘सीलव्वय-गुण-वेरमण-पच्चक्खाण१. "स्वावासस्थानापेक्षया वा स्यादपि, आगतस्यार्थिनो याचनापूर्णीकरणाद्वा, भक्ता वा तस्येदृशाः स्युर्ये तन्निवासस्थाने सत्रशालां तथाविधां, उल्लिखितस्फटिकवद्वा निर्मलान्त:करण इति वा, शेषपदद्वये तु न प्रथमव्याख्यानपक्षे दोषलेशावकाशः." इति म. टिप्पणे // २.Bखं. / पादप्रोक्षणं-म.। पादप्रोच्छनं - J||