SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीवीरजिनस्तुतयः 395 मालाः-स्रजः तासां रजांसि-परागाः तैः रञ्जितौ-पाटलीकृतौ अंही-चरणौ यस्य स नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहिः, तस्य सं० हे 'नमदमरशिरोरुहस्रस्त-सामोदनिर्निद्रमन्दारमालारजोरञ्जिताहे' ! / 'धरित्रीकृतावन' ! आधाराधेयोपचाराद् धरित्री-पृथ्वी तस्यां स्थिता ये जन्तवः पदार्था वा तेषां कृतं-विहितं अवनं-रक्षणं येन स धरित्रीकृतावनः, तस्य सं० धरित्रीकृतावन ! / हे 'असङ्गमोद' ! नास्ति (न स्तः) सङ्गः-प्रसङ्गः मोदः-इष्टप्राप्तिलक्षणो हर्षः तौ द्वौ यस्य सः असङ्गमोदः, तस्य सं० हे असङ्गमोद ! / हे 'अरत !' न विद्यते रतं-सुरतं यस्य सः अरतः, तस्य सं० हे अरत ! / हे 'अरोदित' ! हे अरोदन ! / [हे अनङ्ग !' हे अदेह ! / ] भवान्-त्वं मे-मम निर्वाणशर्माणि-मोक्षसुखानि अनवरतं-निरन्तरं वितरतु इत्यन्वयः / 'वितरतु' इति क्रियापदम् / क : कर्ता ? | 'भवान्' / 'वितरतु' ददातु | कानि कर्मतापन्नानि ? / 'निर्वाणशर्माणि' / कस्य ? / 'मम' / कथम् ? / 'अनवतरम्' / किंविशिष्टो भवान् ? / वरतमः-प्रधानतरः सङ्गमाख्यो वैमानिको देवः तस्य उदारा-स्फारा ताराकनीनिका उदितं-शब्दं अनङ्गः-कामः यासां ताः तादृशा नार्यः-स्त्रियः तासां आवली-श्रेणिः तस्या लापः देहः-शरीरं ईक्षितं-कटाक्षावलोकनं तैः कृत्वा अमोहितानि-न व्यामोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः / पुनः किंविशिष्टो भवान् ? / जातावतारः' कृतावतारः, प्राप्तजन्मा / कस्मिन् ? / धरा-पृथ्वी तस्या अधीशः-स्वामी यः सिद्धार्थनामा तस्य धाम-गृहं तस्मिन् ‘धराधीशसिद्धार्थधाम्नि' / किंविशिष्टे धराधीशसिद्धार्थधाम्नि ? / क्षमा-पृथ्वी तस्यां अलङ्कृतौ-अलङ्कारभूते / पुनः किंविशिष्टे धराधीशसिद्धार्थधाम्नि ? / लीला-विलासः तस्याः पदं-स्थानं लीलापदं तस्मिन् लीलापदे / पुनः किंविशिष्टो भवान् ? / 'क्षितामः' क्षिताः-गताः आमाःरोगा यस्मात् स क्षितामः / हे 'अनङ्गन !' अङ्गना-नार्यः ताभी रहितः (तस्य सं०) अन० / हे 'आर्याव !' आर्यान्-आर्यलोकान् अवति-रक्षति यः स आर्यावः तस्य सं० हे आर्याव ! / हे ‘हित !' हितकारिन् ! / पुनः किंविशिष्टो भवान् ? / न विद्यते क्षोभो यस्यासौ अक्षोभवान् / इति पदार्थः / / अथ समासः-नमन्तश्च ते अमराश्च नमदमराः, शिरसि रोहन्ति-जायन्ते इति शिरोरुहाः, नमदमराणां शिरोरुहाः नमदमरशिरोरुहाः, नमदमरशिरोरुहेभ्यः स्रस्ताः नमदमरशिरोरुहस्रस्ताः, आमोदेन सहिताः सामोदाः, निर्गता निद्रा यासु ता निर्निद्राः, मन्दाराणां माला (मन्दारमालाः), नमदमरशिरोरुहस्रस्ताश्च ताः सामोदाश्च निर्निद्राश्च ता मन्दारमालाश्च नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालाः, (नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालानां रजांसि) नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजांसि, नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोभिः रञ्जितौ अंही यस्य स नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांह्निः, तस्य सं० हे नमदमरशिरोरुहस्रस्त१. अयं पाठः प्रामादिकः /
SR No.004430
Book TitleShobhan Stuti Vruttimala Part 02
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy