SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीपार्थजिनस्तुतयः 377 बोधिदातृ(का) / कस्य ? | अमला-निर्मला मतिर्यस्य सः अमलमतिः तस्य अमलमतेः, निर्मलबुद्धिजनस्येत्यर्थः / कथम् ? / 'अलं' अत्यर्थम् / पुनः किंविशिष्टा जिनानां राजी ? / नास्ति व्याधिः-रोगः, कालाननं-यममुख-मरणं, जननं-जन्म, जरा-वयोहानिः-वार्धक्यं, त्रासः-आकस्मिकं भयं, मानः-अहंकारः एतानि यस्याः सा ‘अव्याधिकालाननजननजरात्रासमाना' / पुनः किंविशिष्टा जिनानां राजी ? | ‘असमाना' अनन्यसदृशा / पुनः किंविशिष्टा जिनानां राजी ? | ‘अतिहृद्या' अतिमनोहरा / पुनः किंविशिष्टा जिनानां राजी ? / 'सा' सा-प्रसिद्धा / तच्छब्दो यच्छब्दमपेक्षते | सा का ? / या जिनानां राजी भीतिहत्-भयही अस्ति / 'अस्ति' इति पदमध्याहार्यम् / ‘अस्ति' इति क्रियापदम् / का की ? | 'या' जिनानां राजी / ‘अस्ति' विद्यते / किंविशिष्टा या ? / 'भीतिहृत्' / कस्मिन् ? / तरलतरा-अतिशयेन चपलतरा लसन्तः-दीप्यन्तः ये केतवः-ध्वजाः रङ्गन्तो-वल्गन्तो ये तुरङ्गा-अश्वा येषु व्याला-दुष्टगजाः तेषु व्यालग्ना-आरूढा भेदि(टि)ता वा ये योधाः-सुभटाः तैः [आचितरं-प्रकटीकृतं यद् वितरं-प्रचुरं] (आचितं-व्याप्तं यद् रचितं) रणं-युद्धं तस्मिन् 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' / एतादृशा रणभयही जिनानां राजी मामारात्-दूराद् अन्तिके वा पायात् / इति पदार्थः / / अथ समासः-राजीवानीव वक्त्राणि यस्याः सा राजीववक्त्रा / अतिशयेन तरलाः तरलतराः, लसन्तश्च ते केतवश्च लसत्केतवः, तरलतराश्च ते लसत्केतवश्च तरलतरलसत्केतवः, रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तुरङ्गाः, तरलतरलसत्केतवश्च रङ्गत्तुरङ्गाश्च येषु ते तरलतरलसत्केतुरङ्गत्तुरङ्गाः, तरलतरलसत्केतुरङ्गतुरङ्गाश्च व्यालाश्च तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालाः, तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालैः व्यालग्नाः तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नाः, तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नाश्च ते योधाश्च तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाः, तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधैः आचितः-आकीर्णः तरलतरलसत्केतुरंङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितः, रचितश्चासौ रणश्च रचितरणः, तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितश्चासौ रचितरणश्च तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणः, तस्मिन् तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे / भीतिं हरतीति भीतिहृत् / हृदि भवा हृद्या, हृदि हिता वा हृद्या, अतिशयेन हृद्या अतिहृद्या / अमला मतिर्यस्य सः अमलमतिः, तस्य अमलमतेः / बोधिं करोति कथयति वा बोधिका / अधिकश्चासौ आमश्च अधिकामः, आधिश्च कामश्च आधिकामम् [अधिकामाधिकामः] तस्मात् (अधिकामात्) आधिकामात् (वा) / व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकालाननजननजरात्रासमानाः, न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अव्याधिकालाननजननजरात्रासमाना / नास्ति समानःतुल्यो यस्याः सा असमाना / इति द्वितीयवृत्तार्थः / / 90 / /
SR No.004430
Book TitleShobhan Stuti Vruttimala Part 02
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy