________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 8 भा०-आय इति सूत्रक्रमप्रामाण्यात् प्रकृतिबन्धमाह / सोऽष्टविधा, सधः - ज्ञानावरणं, दर्शनावरण, वेदनीयं, मोहनीयं, आयुष्क, नाम, गोत्रम्, अपरामिति // 5 // किश्चान्यत् टी.---आद्य इति सूत्रक्रमप्रामाण्यादित्यादि भाष्यम् / आधः-प्रथमो मूलप्रकतिवन्धः / इति रणः शब्दपदार्थकः / सूचनात् सूत्रं अनेऊभेदं कर्म यतः सूचयति / क्रमःसनिवेशस्तस्य प्रामाण्यभन्यप्रमागत्वादिवत् समासः तस्मात् , मूत्रक पप्रामाण्यादिति हेत्वर्या पञ्चमी / प्रकृतिबन्धमिति सामान्याभिधानेऽपि मूलप्रकृतिवन्धभत्र काका प्रतिपादयति सूत्रकारः / यतः पञ्चनवेत्यादिनोत्तरप्रकृतिबन्धं वक्ष्यति (अ० 8, मू० 6) / स मूलप्रक. तिबन्धोष्टविधः-अष्टप्रकारः / तद्यथा-ज्ञानावरणमित्यादि गतार्थ भाष्यम् / इतिकरणः शुभाशुभस्य कर्मण इयत्ताप्रतिपत्तये प्रायोजीति // 5 // किनान्यदित्यादिना मूत्रस्य सम्बन्धमाचष्टे / न केवलं प्रकृतिबन्धो मूल विशेषणः, उत्तरोपपदविशेषणश्चेत्येतदनन्तरं प्रतिपादयन्नाह - भूप्रकृतीनामवा- सूत्रम्-पञ्चनवद्यष्टाविंशतिचतुर्दिचत्वारिंशदद्रिस्तरभेदसःख्या पञ्चभेदा यथाक्रमम् // 8-6 // टी-पश्चादीनां कृतद्वन्द्वानां भवनविभक्त्या निर्देशः / एते भेदाः-पश्चादिभेदा यथाक्रममित्यनन्तरसूत्रक्रमं प्रत्यवमृशति, अनन्तरसूत्रक्रमप्रामाण्यात् ज्ञानावरणाद्यभिसम्बन्धः। तांश्च पञ्चादिकान् भेदान् स्वभावतः प्रति मूलप्रकृतिं वक्ष्यति / ता एव मूलप्रकृतीरभिसम्बन्धयन्नाह मा०–स एष प्रकृतिवन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंशद्भेदः विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् / इत उत्तरं यद् वक्ष्यामः // 6 // तद्यथा टी-स एष प्रकृतिबन्धोऽष्टविधोऽपीत्यादि / आत्मपुद्गलद्रव्यस्यान्वयित्वात् स इत्यनेन सामान्यमात्रपरामर्शः / एष इत्यन्वयिनः परिणामविशेषप्रतिपत्तिः / प्रकृतिबन्ध इति मूलप्रकृतिवन्धोऽष्टप्रकारोऽपि भूय एकैको ज्ञानावरणादिपश्चादिभेदो मन्तव्य इति क्रमेण भाष्यकृद दर्शयति-पञ्चभेद इत्यादिना भाष्येण / समुदायार्थस्त्वस्य भाष्यस्य प्रागासवोदेशे मृलप्रकृतिप्रदर्शित एव, केवलं इह तूत्तरभेदानां मङ्ख्याप्रदर्शन मिति / तत्र पञ्चभेदो ज्ञानावरणप्रकृतिवन्धः क्रमेण यावत् पञ्चभेदोऽन्तरायप्रकृतिवन्ध इत्येवमेतद् यथाक्रम प्रत्येतव्यम् / इतःप्रभृत्युत्तरका यदभिधास्याम इति // 6 // १.बन्धे' इति ग-पाठः। २'तदनेन' इति हु-पाठः। 3 'प्रदर्शनमेव इति -पाठः।