________________ सूत्रं 4 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् लोक्य भवत्येव / परोपदेशात् परोपष्टम्भेन यदुदेति तत्वार्थेषु-जीवादिषु श्रद्धानं-रुचिस्तदधिगमसम्यग्दर्शनमिति // 3 // सम्प्रत्युत्तरसूत्रसम्बन्धं स्वयमेव लगयन्नाह भा०-अत्राह तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् / तत्र किं तत्त्वमिति?। अनोच्यते // 3 // टी-अत्राहेत्यादि / अत्र-एतस्मिस्तत्त्वार्थश्रद्धानलक्षणे सम्यग्दर्शने विषयस्वरूपोपरक्ते व्याख्याते विषयविवेकमजानचोदकोऽनूनुदव-भवता तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्येतदुक्तं, तत्र किं तत्वमिति, तत्रेत्यनेन तत्त्वार्थश्रद्धानशब्दे यस्तत्त्वशब्दस्तत्र किं तत्त्वं किंतस्याभिधेयमिति // ननु चायुक्तोऽयं प्रश्नो, भाष्ये तत्त्वस्य पुरस्तान्निर्णयः कृत इति, तत्त्वानि जीवादीनि वक्ष्यन्ते त एवार्था इत्यस्मिन्, अतो निर्माते तत्त्वे प्रश्नयतो जाडयमवसीयते, उच्यते-न जाडयात् प्रश्नः, सत्यमुक्तं तत्त्वानि जीवादीनि, आदिशब्देन तु अनेकस्याक्षेप इति नास्तीयत्ता, तस्माद भाष्याद् न निर्णयोऽतः इयत्तापरिज्ञानाय प्रश्नः / सरिराह-अत्रोच्यते / अत्र भवत्प्रदर्शिते तत्वशब्दे यदभिधेयं तदियत्तया निवृत्तस्वरूपमुच्यते सूत्रम्-जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् // 1-4 // - टी०–जीवाजीवास्रव इत्यादिना / समासपदं चैतत्, समासपदे च विग्रहमन्तरेण न सुखेन प्रतिपत्तिः परस्मै शक्या कर्तुं इत्यतो विग्रहयति / भा०-जीवा अजीवा आस्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् / एते वा सप्त पदार्थोस्तत्त्वानि / तान् लक्षणतो विधानतश्च पुरताद् विस्तरेणोपदेक्ष्यामः // 4 // टी-जीवा अजीवा इत्यादि / जीवा औपेशमिकादिभावान्विताः साकाराना ____ कारप्रत्ययलाञ्छनाः शब्दादिविषयपरिच्छेदिनोऽतीतानागतवर्तमानेषु जीवादितत्त्वसप्त. कस्य स्वरूपम्। सत समानकर्तृकक्रियाः तत्फलभुजः अमूर्तस्वभावाः / एभिरेव धर्वियुता - अजीवाः धर्मादयश्चत्वारोऽस्तिकायाः / आसूयते यैर्गृह्यते कर्म / आस्रवाः शुभाशुभकर्मादानहेतव इत्यर्थः / बन्धो नाम, तैरास्रवेर्हेतुभिरात्तस्य धर्मणः आत्मना सह संयोगः प्रकृत्यादिविशेषितः / तेषामेवास्रवाणां यो निरोधःलगनं गुप्त्यादिभिः स संवरः / कर्मणां तु विपाकात् तपसा वा यः शाटः सा निर्जरा / बानशमवीर्यदर्शनात्यन्तिकैकान्तिकाबाधनिरुपमसुखात्मन आत्मनः स्वात्मन्यवस्थानं मोक्षः / इतिशब्द इयत्तायाम्, एतावानेव / एष इति भवतः प्रत्यक्षीकृतो वचनेन / सप्त . १'आस्रवः' इति क-ख-घ-टी-पाठः / २'उपशमिकादि' इति क-ख-पाठः /