________________ सूत्र 34 ]. स्वोपज्ञभाष्य-टीकालङ्कृतम् 423 रूक्षादिसमगुणविकल्पसङ्ग्रहार्थः। तुल्यगुणः स्निग्धो यस्य स तुल्यगुणस्निग्धः, तुल्यः स्नेहगुणो यस्येत्यर्थः, तस्यानेन सदृशेनैव तुल्यगुणस्निग्धेन बन्धो नास्ति, परस्परं परिणतिशक्तेरभावात् , तुल्यबलगुणमल्लद्वयान्योन्यानभिघातवद् , एकगुणस्निग्धो हि नैकगुणस्निग्धेन वध्यते, तथाऽनन्तपर्यवसानाद् द्विगुणादिस्निग्धाः द्विगुणादिस्निग्धैः समगुणैरनन्तपर्यवसानैः सह न बध्यन्ते, एवमेकगुणरूक्षोऽप्येकगुणरूक्षेण सह न बध्यते, तुल्यदुर्बलगुणमल्लद्वयान्योन्यानभिघातवदेव, तथा द्विगुणादिरूक्षा न द्विगुणादिसौरनन्तावसानैः सह बन्धमनुभवन्तीति // भा०-अत्राह-सदृशग्रहणं किमपेक्षत इति / अत्रोच्यते-गुणवैषम्ये सदृशानां पन्धो भवतीति // 34 // टी-अत्राह-सदृशग्रहणं किमपेक्षत इति / एवं मन्यते प्रष्टा, गुणसाम्ये सति बन्धो न भवति, येषां च समा गुणाः प्रकर्षापकर्षवृत्ताः प्रतिविशिष्टसङ्ख्यावच्छिभास्ते नियमेन गुणैः सदृशाः, इत्येतावताभिलषितेऽर्थे सिद्धे सदृशग्रहणमतिरिच्यमानमपरार्थापेक्षि भवति, तं चापरमर्थमजानानः प्रश्नयति–किमपेक्षते सदृशग्रहणमिति, आचार्योऽपि विशिष्टार्थप्रतिपसये सदृशग्रहणं चेतसि निधायाह-अनोच्यत इति / गुणवैषम्ये सदृशानां बन्धो भवतीति, स्नेहगुणवैषम्ये रूक्षगुणवैषम्ये च बन्धः समस्ति, केषामत आह-सदृशानामिति / एनमर्थ सदृशग्रहणमपेक्षते, सादृश्यं च स्नेहगुणमात्रनिबन्धनं रौक्ष्यगुणमात्रनिबन्धनं च सयानमाश्रित्य ग्राह्यम्, अतः सदृशानामपि स्नेहगुणसामान्येन रौक्ष्यगुणसामान्येन च प्रकर्षापकर्षवृत्ततद्गुणवैषम्ये सति भवत्येव बन्धः, तद्यथा-एकगुणस्निग्धस्त्रिगुणस्निग्धेन, द्विगुणस्निग्धश्चतुर्गुणस्निग्धेन, त्रिगुणस्निग्धः पश्चगुणस्निग्धेन, चतुर्गुणस्निग्धः षड्गुणस्निग्धेनेत्येवं यावदनन्तगुणस्निग्धो विषमगुण इति / अन्ये त्वभिदधति सूरयः-एकगुणस्निग्धस्य द्विगुणस्निग्धेनैकगुणरूक्षस्य द्विगुणरूक्षेणेति भावनीयम् , एतच्च सम्प्रदायेनागमोपनिबन्धदर्शनेन च प्रायो विसंवदति इत्यनादरः // 34 // भा०-अत्राह-किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति / अत्रोच्यते टी-अबाहेत्यादिः सम्बन्धप्रतिपादनपरो ग्रन्थः, किमविशेषेण गुणवैषम्ये सहशानां बन्धो भवतीति, यद्यविशेषेण तत एकगुणस्निग्धस्य द्विगुणस्निग्धेनापि बन्धप्रसङ्गोऽनिष्टं चैतदा(दित्या ?)रेकमाणे प्रष्टरि सूरिराह-अनोच्यत इति, न सर्वेषामेव, सदृशानां, किं तर्हि 1 1-2 न्याभिषात.' इति ग-पाठः। 3 'सामान्यगुणेन' इति ग-पाठः। ४'तयवि' इति ग-पाठः।