________________ स्वरूपम् 268 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 3 टी०-मनुष्यक्षेत्र इत्यादि भाष्यम् / अर्धतृतीयद्वीपाभ्यन्तरे पञ्च भरतानि पझे रावतानि पञ्च विदेहाः पञ्चदश कर्मभूमयो भवान्त, कात्स्येन प्राप्ते कर्मभूमिले विदेहानामपवादः क्रियते-देवकुरुत्तरकुरुखो विदेहाः कर्मभूमयो भवन्तीति, तदन्तः पातित्वान्निषेधः // अथ कः कर्मभूमिशब्दार्थ इत्यत आह भा०-संसारदुर्गान्तगमकस्य सम्यग्दर्शनज्ञानचारित्रात्मकर्माकर्मभूमि ___ कस्य मोक्षमार्गस्य ज्ञातारः कर्तार उपदेष्टारश्च भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्ते / अत्रैव जाताः सिद्धयन्ति नान्यत्र, अतो निर्वाणाय कर्मणः सिद्धिभूमयः कर्मभूमय इति। शेषास्तु विंशतिवैशाः सान्तरद्वीपा अकर्मभूमयो भवन्ति / / टी-संसारदुर्गान्तगमकस्येत्यादि / मोक्षमार्गो विशिष्यते, संसारो नारकादिभेदः स एव दुर्ग-गहनमनेकजातिप्रमुखत्वाद दुःखात्मकत्वाच तस्यान्तः पारः संसारदुर्गान्तस्तं संसारदुगान्तं गमयति-प्रापयति यस्तस्य संसारदुगान्तगमकस्य मोक्षमार्गस्य-सम्यक्त्वज्ञानचरणात्मकस्येति मोक्षाङ्गानामियत्तांमावेदयति, एवंविधस्य मोक्षपथस्य, ज्ञातारस्तीर्थकरा यथावदवगन्तार इत्यर्थः / कर्तार इति प्रणेतारः प्रदर्शयितार इतियावत् नित्यत्वात् प्रवचनार्थस्येति, सम्यक्त्वाद्यात्मकं तीर्थ तत्प्रणयनात् तीर्थकरा भवन्ति, गणधरादिप्रजाजनाद् वा, वाग्योगेन चोपदिशन्ति भगवन्त इत्युपदेष्टारः श्रुतज्ञानाभावादिति सूचयति, यशोलक्ष्म्यादियोगाद् भगवन्तः, परमर्षयः कृतार्थत्वे सति सन्मार्गोपदेशेन भव्यसत्त्वाभ्युद्धरणात् तीर्थकरणहेतवस्तच्छीलास्तदनुलोमवृत्तयो वा तीर्थकरा अत्रोत्पद्यन्ते पञ्चदशसु क्षेत्रेषु, एतेष्वेव च पुनः सकलकर्मक्षयं विधाय सिद्धिधामाभिधावन्ति नान्यत्र क्षेत्र इति / अतो निर्वाणाय कर्मणः सिद्धिभूमयः कर्मभूमय इति / अतः सकलकमाग्नेर्विध्यापनाय सिद्धिप्राप्त्यै भूमयः कर्मभूमयोऽभिधीयन्त इति / परिशेषलब्धमकर्मभूमिशब्दार्थमाख्याति-शेषास्त्वित्यादि / जम्बूद्वीपे हैमवत-हरिवर्ष-रम्यक हैरण्यवताख्याश्चत्वारो वंशाः, एत एव धातकीखण्डेऽष्टौ द्विगुणाः पुष्कराधे चाष्टावेकत्र विंशतिवंशाः सहान्तरद्वीपैरेकोरुकादिभिः षट्पञ्चाशद्भिरकर्मभूमयो भवन्ति, तीर्थकरजन्मादिरहितत्वात् / पूर्वापोदितमर्थमुपसंहरति भा०-देवकुरूत्तरकुरवस्तु कर्मभूम्यभ्यन्तरा अप्यकर्मभूमय इति // 16 // टी०--सर्वदाचरणप्रतिपत्तेरभावादित्यवगमयति // 16 //