________________ सूत्र 11] स्वोपनभाष्य-टीकालङ्कृतम् 255 अथैषां भरतादिक्षेत्राणां किंकृतो विभाग इत्याहसूत्रम्-तद्विभाजिनः पूर्वापरायता हिमवन्-महाहिमवन्-निषध-नील रुक्मिशिखरिणो वंशधरपर्वताः॥३-११॥ . टी०–तानि विभक्तुं शीलमेपामिति तद्विभाजिनोऽकृत्रिमसन्निवेशित्वात् तच्छीलाः, पूर्वापरायता इत्युभयतो लवणजलधिमवगाढाः हिमवदादिसंज्ञानिर्देशः, वंशा वर्षा वा क्षेत्राणि तेषां धारकाः-विशिष्टव्यवच्छेदकारिणो गिरयोऽनादिकालव्यवस्थानाः / भा०--तेषां वर्षाणां विभक्तारः हिमवान् महाहिमवान् निषधो नीलो रुक्मी शिखरीत्येते षड् वर्षधराः पर्वताः॥ भरतस्य हैमवतस्य च विभक्ता .. हिमवान् / हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवान्, हिमवदादिवर्ष इत्येवं शेषाः // तत्र पञ्च योजनशतानि षड्विंशानि षट् चैको नविंशतिभागा (526,6 ) भरतविष्कम्भः। स दिबिर्हिमवद्धमवतादीनामाविदेहेभ्यः / परतो विदेहेभ्योऽर्धार्धहीनाः // टी-- तेषां वर्षाणामित्यादि भाष्यं प्रायो गतार्थम्, कथं पुनरमी वंशधरपर्वता इत्यादर्शयति-भरतस्य हैमवतस्य च विभक्ता हिमवान् / तन्मध्यव्यवस्थितत्वाद् भारतहमवतयोविभागमापादयति हिमवान् / तथा हैमवतहरिवंशयोर्व्यवस्थाकारी महाहिमवान्। इत्येवं शेषगिरयोऽपि नामग्राहं वक्तव्या इत्यतिदिशति, हरिवंशविदेहयोर्विभक्ता निषधः, विदेहरम्यकयोर्विभक्ता नीलः, रम्यकहैरण्यवतयोविभक्ता रुक्मी, हैरण्यवतैरावतयोविभक्ता शिखरीति॥अधुनैपां क्षेत्राणां विभागे सति प्रमाणमाख्याति-तत्र भरतक्षेत्रमारोपितचापाकारम्, अतः प्रागिपोरेव प्रमाणमुच्यते-पञ्च योजनशतानि षइविंशत्यधिकानि षट् चैकोनविंशतिभागा योजनस्य भरतक्षेत्रविष्कम्भः / अपरे त्विदमेव भाष्यवाक्यं सूत्रीकृत्याधीयते / विष्कम्भत इति मध्यप्रदेशे भवति, एवमैरावतक्षेत्रविष्कम्भोऽपि / हिमवदादिपर्वतानां शेषक्षेत्राणां चैवमतिदिशन्नाह-से द्विििहमवद्वैमवतादीनामाविदेहेभ्य इति, तद्यथा-हिमवच्छिसरिगोर्योजनसहस्र द्वयुत्तरपञ्चाशताधिकं द्वादश चैकोनविंशतिभागा योजनस्य, हैमवतहैरण्यवतयोः सहस्रद्वयं शतं च पञ्चोत्तरं पञ्च चैकोनविंशतिभागा योजनस्य, महाहिमवद्रुक्मिणोश्चत्वारि सहस्राणि शतद्वयं दशोत्तरं दश चैकोनविंशतिभागा योजनस्य, हरिरम्यकयोरष्टौ सहस्राणि चत्वारि शतान्येकविंशत्यधिकानि एकश्चैकोनविंशतिभागो योजनस्य, निषधनीलयोः षोडश सहस्राण्यष्टौ शतानि द्वयुत्तरचत्वारिंशताधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य, विदेहानां त्रयस्त्रिंशत्सहस्राणि षट् च शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्येति / परतो विदेहेभ्योऽर्धार्धहीना इति / नीलादीनां प्रमाणमाचष्टे लापविक आचार्यः 1 वर्षधर०' इति घ-पाठः / 2 ‘स भरतेषुर्द्विगुणो द्विगुणः पर्वतानां क्षेत्राणां विष्कम्भो भवस्याविदेहेभ्य इति प-टी-पाउः /