SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ___ शीलदूतम् (स्थुलभद्र चरित्रम्) * मन्दाक्रान्ता-वृत्तम्] भुक्त्वा भोगान् सुभगतिलकः कोशया सार्धमिद्धान्, धन्यो मान्यो निखिलविदुषां भद्रया स्थूलभद्रः / चक्रे श्रुत्वा जनकनिधनं जातसंवेगरङ्गः, स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु / / 1 / / व्याख्या सुष्ठु शोभनः भगः रूपम् अणिमाद्यष्टविधमैश्वर्यं भाग्यं वा यस्य स सुभगः, सुभगानां तिलकं विशेषक इवेति सुभगतिलकः रूपवतां ऐश्वर्यवतां भाग्यवतां वा मध्ये प्राधान्येन विराजमान इत्यर्थः, धन्यः धनमर्हति, धनं लब्धा वा इत्यर्थे 'धनगणाल्लब्धरि [7.1.9]' इति यः, धनपात्रं, धनवान् भावी चेत्यर्थः, निखिला अशेषा विद्वांसः निखिलविद्वांसः तेषां मान्यः मान्यते पूज्यते इति “ऋवर्णव्यञ्जनाद् ध्यण् [5-1-17]' इति ध्यण, पूज्य इत्यर्थः, स्थूलभद्रः-पाटलीपुत्रपुरे.नन्दनृपः शकटालमन्त्री लक्ष्मीदेवी पत्नी तयोः पुत्रौ स्थूलभद्र-श्रीयकाभिधानौ सप्त च यक्षादि पुत्र्य स्तत्र ज्येष्ठपुत्रः स्थूलभद्रेति नाम्ना प्रसिद्धः भद्रया कल्याण्या कोशया तन्नाम्ना प्रख्यातया पाटलिपुत्रपुरवेश्यया, सार्धम् सह, इद्धान् दीप्तान् भोगान् भुज्यन्ते इति भोगाः, भुजेः कर्मणि घञ्, स्रक्चन्दनवनितादयो विषयाः तान् भुक्त्वा यथेच्छमुपयुज्य जनकनिधनं जनकस्य उत्पादकस्य शकटालमन्त्रिणः निधनंवररुचिविंप्रप्रपञ्चरुष्टराजापराधदण्डशङ्कया राज्ञोऽग्रत एव स्वपुत्रेण श्रीयकेण खड्गव्यापारेण मृत्यु, श्रुत्वा - निशम्य जातसंवेगरङ्गः जातः उत्पन्नः संवेगस्य संसारसुखत्यागत्वराया रङ्गः अग्रभूमिः प्रारम्भो वा यस्य तादृशः, स्निग्धच्छायातरुषु स्निग्धाः मनोहरा: छायाप्रधानाः तरवः छायातरवः येषु मनोहरघनच्छायावृक्षेषु रामगिर्याश्रमेषु रमन्ते योगिनो यत्र ते रामा स्तथाभूता गिरयः पर्वताः रामगिरयः तत्रस्थेषु आश्रमेषु मुनिनिवासस्थानेषु वसतिं निवासं चक्रे कृतवान् इति /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy