SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 50 ] षडशीतिनाम्नि चतुर्थ कर्मग्रन्थे __(यशो०) अविरतिदशविघा कथमित्याह-मनस इद्रियाणां च पश्चानामनियमोऽनियन्त्रणं शब्दादिषु विषयेषु मनोज्ञा-ऽमनोज्ञेषु रागद्वेषप्रवृत्तेरनिवारणमिति षोढा तथा षण्णां कायाना पृथिव्यादीनां वधो = हिंसेति च पोढेति द्वादशविधेति मध्यमां वृत्तिमवलम्ब्योक्तमन्यथा सामान्येन सावद्ययोगा-निवृत्तिरूपत्वेनै कविधैव / व्यक्त्याश्रयणेन यावन्ति हिंसादीनां पापस्थानानि तदनुवृत्तिरूपत्वेनापरिमितविधा / पोडश नव चेति कषायाः पञ्चविंशतिः / षोडश नव च कषाया इति सामान्योक्तावपि षोडश कषाया नव नोकषाया इति दृश्यम् / तत्र कपायाः प्राग्निीतार्थाः क्रोधादयश्चत्वारोऽनन्तानुवन्ध्य प्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनात्मकमेदचतुष्टयेन प्रत्येकं भिद्यमानाः षोडश भवन्ति / तत्रानन्तं संसारमनुबध्नन्ति प्राणिभिः संबद्धं कुर्वन्तीयेवंशीला अनन्तानुबन्धिनः / यद्यप्यमीषां शेषकायोदयशन्यानामुदयो नास्ति / तथाऽ-प्यनन्त भवमूलकारणस्य मिथ्यात्वोदयस्या-ऽऽक्षेपकत्वादेतेषामेवानन्तानुबन्धित्वव्यपदेशः / शेषास्तु कषाया न नियमेन मिथ्यात्वोदयमाक्षिपन्ति / ते चाऽनन्तानुबन्धिनः क्रोध-मान-माया-लोभा यथाक्रमं शैलरेखाशैलस्तम्भवंशीशूलकृमिरागसंनिभा जीवपरिणतिविशेषा अवगन्तव्याः / नोऽल्पार्थत्वादल्पमपि प्रत्याख्यानं देशविरतिरूपमावृण्वन्तीत्यप्रत्याख्यानावरणा एवंरूपाश्च क्रोधादयः क्रमेण पृथिवीरेखा-ऽस्थिमेषशृङ्गकईमरागसदृशा मन्तव्याः / प्रत्याख्यानं सर्वविरतिरूपमाबृण्वन्तीति प्रत्याख्यानावरणा एवमात्मनश्च क्रोधादयो यथासंख्यं रेणुरेखाकाष्टगोमूत्रिकाखञ्जनरागसमाना ज्ञेयाः / सम्शब्दस्येषदर्थत्वात्परीषहादिपरिचये चारित्रिणमपीपज्ज्वलयन्तीति संज्वलना एवंरूपाश्च क्रोधादयः क्रमेण जलरेखातिणिशलतावंशावलेखाहरिद्रारागसमा बोद्धव्या इति / तथा नोशब्दस्य साहचर्यवाचित्वात्कषायैः सहचरा नोकषायाः, तेषां हि केवलानां प्राधान्यम् , किन्तु तेषां यैः सहोदयमायान्ति कपायविपाकसममेव च विपाकमुपदर्शयन्ति / ते च स्त्रीनपुसकात्मकवेदत्रयहास्यरत्य-रतिशोकमयजुगुप्सालक्षणहास्यादिषट्करूपत्वेन नवधा ।तत्र वेदत्रयं प्रागुक्तस्वरूपम् / यदुदये सहेतुकमहेतुकं वा हसति स हासः / यदुदये रमणीये वस्तुनि रमते= प्रमोदते सा रतिः / तद्विपरीताऽरतिः / येन प्रियविप्रयोगाद्याकुलः शोचना-ऽऽक्रन्दनादि विधत्तेस शोकः / येन स चीजमबीजं वा बिभेति तद् भयम् / येन सकृदादिविरूपपदार्थात् जुगुप्सन्ते, सा जुगुप्सति कपायाः पञ्चविंशतिः / योगाः पञ्चदशेति मनश्चतुष्टय-वाच्चतुष्टय-कायसप्तकरूपाः प्रागुक्तार्थाः। एते च मिथ्यात्वादयः सस्वभेदा मीलिताः सप्तपञ्चाशत्कर्मणां बन्धहेतव उक्ताः // 76 / / अथैतान् क्रमेण गुणस्थानेषु योजयतिपणपन्नपन्नतियछहियचत्तगुणचत्तछचन्दुगवीसा। सोलस दस नव नव सत्त हेउणो न व अजोगित्ति // 77 //
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy