SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 48] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे इतिशब्दो लेश्याद्वारसमाप्त्यर्थः // 73 // इदानीं गुणस्थानेषु ज्ञानावरणादिकर्मणां बन्धहेतून दर्शयितुकामः प्रथमं तानेव भेदत आह बन्धस्स मिच्छअविरहकमायजोगत्ति हेयवो चउरो / पंच 'दुवाल पणुवीस पन्नरस कमेण भेया सिं // 7 // (यशो०) ज्ञानावरणादिकर्मणां बन्धस्य हेतवः कारणानि=मिथ्यात्वाविरतिकषाययोग इत्येवंरूपाश्चत्वारः, एतांश्च मूलभेदानाहुः, न तु प्रमादरूपं पञ्चममिति / तद्भेदानां मद्यादीनां मिथ्यात्वशेषेष्ठतेष्वेव यथायोगम तर्भावात् / तत्र मिथ्यात्वमेकस्मिन्नेव गुणस्थान इत्यादौ निर्दे: ष्टम् / ततो यथोत्तरं बहुगुणस्थानाश्रयत्वेना-ऽविरत्यादयः। तथाहि-मिथ्यात्वं मिथ्या(दृष्टा)वेव, अविरतिराद्यपञ्चगुणस्थानव्यापिनी, कषाया आद्यगुणस्थानदशकव्यापिनः, योगास्तु अयोगिव-. र्जगुणस्थानव्यापिनः / एषामेव क्रमेण पञ्च द्वादश पञ्चविंशति पञ्चदशेति संख्या-ऽवच्छिन्ना भेदाः, सर्वे वा मीलिताः सप्तपञ्चाशत् / एतांश्चोत्तरभेदानाचक्षते / / 74 // अथैतानेव क्रमेण विकृणोति / / आभिग्गहियं 'अणभिग्गहियं च तह अभिनिवेसियं चेव / संसइयमणाभोगं मिच्छत्तं पंचहा एवं // 75 // (यशो०)अभिग्रहः परोपदेशादिप्रभवः कदाग्रहस्तस्माद् यातमाभिग्रहिकम् येन बोटिकादिदर्शनानामन्यतमदभिगृहणाति / तद्विपरीतमनाभिग्रहिकमज्ञानां गवादीनामिव / यद्वेषन्माध्यस्थ्यासर्वदर्शनानि शोभनानीत्येवंरूपा यतः प्रतिपत्तिः तदाभिग्रहिकम् / यद्यपि चाभिग्रहिक विपर्यस्तरूपतया-ऽभिनिवेशिकायप्य-ऽनाभिग्राहिकेऽन्तर्भवति / तथा-ऽप्य-ऽपवादविषयं परिहत्योत्सर्गाः प्रवर्त्तत इति न्यायादाभिनिवेशिकादिभ्यो भिन्नविषयमनाभिग्रहिकं बोद्धव्यम् / अभिनिवेशो=ऽवलेपः, यद्वशीभूत एकेन वस्तुतत्त्वे प्ररूपिते मात्सर्यादिना वस्तुतस्वमन्यथा कथयति / उत्सूत्रप्ररूपणं वा स्वयं कृतमात्मलाघवभिया समर्थयते / वस्तुतत्त्वमजानानो वाऽन्येन पृष्टो मा मामचं ज्ञासीदयमिति यथाकथश्चिदुत्तरयति / तस्माद् यातमाभिनिवेशिकम् / यथा गोष्ठामाहिलादीनाम् / यदईता जीवादितत्त्वमभिहितं तन्न जाने किं तथैव भवेदुता-ऽन्यथेत्येवंभूतासंशयाद् यातं सांशयिकम् / आभोगो-विशिष्टज्ञानम् , स न विद्यते यत्र तदनाभोगं पृथिव्यादीनाम् / एवमिति काक्वापाठस्तत एव-ममुना प्रकारेण पञ्चधा मिथ्यात्वम् / अन्यथा तु विपर्यस्तबोधरूपत्वेनेकविधम् / आभोगा-ऽनाभोगप्रभवतया द्विविधम् / संशयाऽऽभोगाऽनाभोगोद्भवतया त्रिविधम् / सावधारणजीवाद्यस्तित्वप्रतिपत्तिलक्षणानां क्रियावादिनामशीत्यधिकशतस्य / न कस्यचित्क्षणिकत्वादनवस्थि 1 "दुवालसपणुवीसपनरस” इत्यपि पाठः / 2 "अणभिग्गह" इत्यपि /
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy